Himachal Congress : प्रतिभासिंहं अध्यक्षपदात् वारयितुं शीर्षनेतृत्वं प्रति विधायकानां पत्रम्
निर्वाचनं स्पर्धाया: अस्वीकरणे विधायकाः राष्ट्रीयाध्यक्षाय मल्लिकार्जुनखड़गेवर्याय पत्रं प्रेषितवन्तः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
कांग्रेसस्य राज्याध्यक्षाया: प्रतिभासिंहाया: निर्वाचनं कर्तुं अस्वीकरणस्य अनन्तरं दले तस्याः विरुद्धं स्वराः उत्थापयितुं आरब्धाः सन्ति। राज्यस्य विधायकाः शीर्षनेतृत्वेन सह प्रतिभासिंहाया: पदात् निष्कासनस्य विषयं उत्थापयन्ति। अस्मिन् विषये कांग्रेसदलस्य राष्ट्रियाध्यक्षाय मल्लिकार्जुनखड़गेवर्याय पत्रं प्रेषितम् अस्ति। अस्य पत्रस्य माध्यमेन सङ्घटनात्मकक्रियाकलापानाम् अभावः, राज्याध्यक्षाया: विभिन्नेषु विधानसभाक्षेत्रेषु न्यूनतया प्रवास:, अन्तिमक्षणे लोकसभानिर्वाचनं प्रतिस्पर्धयितुं अस्वीकारः इत्यादय: विषया: अपि उल्लिखिता: सन्ति। उल्लेखनीयं यत् राज्याध्यक्षा प्रतिभासिंह अधुनैव दिल्लीतः प्रत्यागत्य मण्डीसंसदीयक्षेत्रतः निर्वाचनं न करिष्यति इति घोषितवती आसीत्।
क्षेत्रे सङ्घटनात्मकक्रियाकलापानाम् अभावः, कार्यकर्तारः सर्वकारे समुचितं स्थानं न प्राप्नुवन्ति इति विषये अपि सा कथितवती । परन्तु अस्मिन् काले सा षट् विधानसभासु उपनिर्वाचनानां विषये अपि उक्तवती आसीत्, अस्मिन् विषये संस्थायाः पूर्णशक्तिः संयोजितव्या। परन्तु अधुना अस्मिन् पत्रे अग्रे आगत्य आगामिषु दिनेषु प्रतिभासिंहाया: कृते मार्गः कष्टैः परिपूर्णः भवेत्। परन्तु अद्यावधि अस्मिन् विषये उच्चाज्ञातः कोऽपि निर्णयः न आगतः । काङ्ग्रेससर्वकारः राज्ये पूर्वमेव संकटस्य सम्मुखीकरणं कुर्वन् अस्ति तथा च एतादृशी परिस्थितौ यदि लोकसभानिर्वाचनात् पूर्वमेव राज्याध्यक्षस्य परिवर्तनं भवति तर्हि दलस्य कृते महत् आघातं भवितुम् अर्हति। सम्प्रति तेन पत्रेण राजनैतिकवृत्तेषु नूतना चर्चा अभवत् ।