हिमाचले राजनैतिके द्वन्द्वे काङ्ग्रेसस्य महासचिव प्रियङ्कागान्धी वाड्रा शिमलां प्राप्तवती
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशे राजनैतिक- अशान्ति- मध्ये अखिलभारतीय- काङ्ग्रेससमित्याः महासचिव प्रियङ्कागान्धी बुधवासरे शिमलानगरं प्राप्तवती। प्रियङ्का चण्डीगढतः मार्गेण शिमलानगरं प्राप्तवती। सूचनानुसारं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि प्रियङ्कया सह राजमार्गेण शिमलानगरं प्रत्यागतवान् अस्ति। एषा प्रियङ्का गान्धी इत्यस्याः व्यक्तिगतं भ्रमणम् इति कथ्यते। शिमलाभ्रमणकाले प्रियङ्का हिमाचलस्य बहुभि: काङ्ग्रेसनेतृभिः सह मिलित्वा लोकसभानिर्वाचनस्य, विधानसभा- उपनिर्वाचनस्य च सज्जतायाः विषये प्रतिक्रियां ग्रहीतुं शक्नोति। अस्मात् पूर्वमपि सा शिमलाम् आगच्छति स्म। शिमलासमीपे छराबड़ायां प्रियङ्कायाः स्वकीयं गृहम् अस्ति। गतविधानसभा- निर्वाचनकालेऽपि सा छराबड़ायां चिरकालं यावत् स्थितवती।