हिमाचल-तकनीकी-विश्वविद्यालये प्रवेशपरीक्षायै १८ अप्रैलपर्यन्तं भविष्यति आवेदनम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेश- तकनीकीविश्वविद्यालये, हमीरपुरे हिमाचलप्रदेश- सामान्यप्रवेशपरीक्षा- २०२४ (एचपीसीईटी) इत्यस्य ऑनलाइन आवेदनप्रक्रिया आरब्धा अस्ति। पात्रछात्राः प्रवेशपरीक्षायाः कृते १८ एप्रिलपर्यन्तं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति। प्राविधिकविश्वविद्यालयस्य प्रवेशपरीक्षा मई १० दिनाङ्के भविष्यति। हमीरपुर- प्राविधिकविश्वविद्यालये B.Tech, B-Pharmacy, MCA, MBA, MBA (Tourism) इत्यत्र प्रवेशार्थं साधारणप्रवेशपरीक्षा भवति। B.Tech, B-Pharmacy एवं MCA इत्येतेषां प्रवेशपरीक्षा प्रातः सत्रे भविष्यति। सायं सत्रे एमबीए, एमबीए (पर्यटन) परीक्षा भविष्यति। तकनीकीविश्वविद्यालयस्य अधिष्ठाता- शैक्षणिकं प्रो. जयदेवः अवदत् यत् आगामिषु शैक्षणिकसत्रे प्रवेशार्थं साधारणप्रवेशपरीक्षा क्रियते। केवलं एतस्य आधारेण छात्राः तकनीकीविश्वविद्यालयेषु, तत्सम्बद्धासु शैक्षणिकसंस्थासु च प्रवेशाय पात्राः इति गण्यन्ते। प्रवेशपरीक्षायाः कृते अभ्यर्थिनः तकनीकीविश्वविद्यालयस्य जालपुटे सूचनापुस्तिकाम् अवलोकयितुं शक्नुवन्ति, यस्मिन् प्रवेशपरीक्षासम्बद्धविवरणं विस्तरेण दत्तम् अस्ति।
सः अवदत् यत् प्रवेशपरीक्षायाः कृते राज्यस्य चम्बा, धर्मशाला, पालमपुरं, नूरपुरं, मण्डी, कुल्लू, बिलासपुरं, हमीरपुरं, ऊना, सोलनम्, शिमला, सिरमौरं जनपदेषु परीक्षाकेन्द्राणि स्थापितानि भविष्यन्ति। एतदतिरिक्तं चण्डीगढे परीक्षाकेन्द्रं स्थापितं भविष्यति। अभ्यर्थिनः स्वस्य सुविधानुसारं ऑनलाइन आवेदनपत्रे परीक्षास्थलस्य चयनं कर्तुं शक्नुवन्ति। परीक्षाकेन्द्रेण सह छात्राणां कृते आवेदनप्रक्रियायाः समाप्तेः अनन्तरमेव प्रवेशपत्रं निर्गतं भविष्यति।