Himachal News : उपनिर्वाचनस्य घोषणामात्रेण विद्रोहीविधायकानां महत् आक्रमणं, ९ असन्तुष्टाः नेतारः मुख्यमन्त्रिण: विरुद्धं मानभङ्गस्य अभियोगं करिष्यन्ति
हिमसंस्कृतवार्ता- शिमला।
हिमाचले लोकसभानिर्वाचनेन सह विधानसभा उपनिर्वाचनानां घोषणामात्रेण ६ असन्तुष्टाः नेतारः त्रयः स्वतन्त्राः विधायकाः च सर्वकारे नूतनं आक्रमणं कृतवन्तः। निर्गते संयुक्तवक्तव्ये ते उक्तवन्तः यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः प्रतिदिनं तेषां विरुद्धं यान् आरोपान् करोति ते न्यायालये सिद्धाः भवेयुः। अधुना सर्वे ९ नेतारः तस्य विरुद्धं मानभङ्गस्य अभियोगं कर्तुं गच्छन्ति। एते नेतार: राजेन्द्रराणा, सुधीरशर्मा, इन्दरदत्त लखनपाल, रविठाकुर:, देवेन्द्रभुट्टो, चैतन्य शर्मा, होशियारसिंह:, आशीष शर्मा, के. एल. ठाकुर: च वर्तन्ते। एते उक्तवन्त: यत् यथा एव सः सत्तां नष्टं करोति, तस्य सर्वकारस्य जनद्रोहः, तस्य मित्रैः कृतानि अन्धकारकर्माणि च प्रकाशं प्राप्नुयुः।
एते नेतारः व्यङ्ग्यरूपेण अवदन् यत् इदानीं राज्यस्य प्रत्येकः बालकः जानाति यत् मुख्यमन्त्रिण: सुक्खो: कार्याणि तस्य नामविरुद्धानि सन्ति। एते नेतारः अवदन् यत् सुक्खुः हिमाचलप्रदेशस्य अत्यन्तं दुर्भाग्यपूर्णः मुख्यमन्त्री इति सिद्धः अभवत्, यः सत्तां प्राप्तमात्रेण युवानां कृते कार्यद्वाराणि पिधाय, काङ्ग्रेसस्य घोषणापत्रं अवकरकण्डोले क्षिप्तवान्, एकतः च आपदा अभवत् तस्य कार्यकाले। अन्यतः कोषः शून्यः अभवत्। एते नेतारः व्यङ्ग्येन अवदन् यत् यदा कोषः मित्राणां कृते विपुलः भवति तदा सः शून्यः एव भवितुम् अर्हति इति। एते नेतारः आरोपं कृतवन्तः यत् मुख्यमन्त्री स्वमित्रेभ्यः लुण्ठनार्थं मुक्तहस्तं दत्तवान् तस्य मित्राणि च मुक्ततया जनानां धनं गृह्णन्ति तथा च कोटिमूल्यानि सम्पत्तिः अपि क्रीणन्ति। एते नेतारः अवदन् यत् मुख्यमन्त्री अस्मान् विक्रयणार्थं आरोपयति।