सर्वोच्चन्यायालयात् प्राप्तं डिजिटलदत्तांशं निर्वाचनायोगेन स्वस्य जालपुटे प्रकाशितम्
सर्वोच्चन्यायालयस्य रजिस्ट्री इत्यस्मात् प्राप्तं डिजिटलदत्तांशं निर्वाचनायोगेन गतदिने स्वस्य जालपुटे प्रकाशितानि। एतानि प्रदत्तानि निर्वाचनायोगस्य जालपुटे www.eci.gov.in/candidate-politicalparty इत्यत्र द्रष्टुं शक्यते।
निर्वाचनागेन विज्ञप्तौ उक्तं यत् सर्वोच्चन्यायालयस्य निर्देशानुसारं राजनैतिकदलैः निर्वाचनमण्डलसम्बद्धं दत्तांशं बद्धे पुटते दत्तानि, पुटकं न उद्घाट्य साक्षात् सर्वोच्चन्यायालये समर्पितमासीत्।
१५ मार्च दिनाङ्कस्य न्यायालयस्य निर्देशानुसारं सर्वोच्चन्यायालयस्य रजिस्ट्री इत्यनेन एतत् दत्तांशं भौतिकमाध्यमेन सीलबद्धावरणेन पेनड्राइव इत्यत्र योजयित्वा निर्वाचनायोगाय प्रत्यागतम्।
सर्वोच्चन्यायालयात् प्राप्तं डिजिटलदत्तांशं निर्वाचनायोगेन स्वस्य जालपुटे प्रकाशितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment