राष्ट्रीयटीकाकरणदिवसः
राष्ट्रीयटीकाकरणदिवस: टीकानां महत्त्वस्य विषये जागरूकतां प्रसारयितुं प्रतिवर्षं मार्चमासस्य १६ दिनाङ्के आचर्यते। राष्ट्रीयटीकाकरणदिवसः राष्ट्रियप्रतिरक्षणदिवसः इति नाम्ना अपि ज्ञायते। अस्मिन् दिने सम्पूर्णे देशे टीकानां महत्त्वस्य विषये जागरूकता प्रसारिता भवति। परितः उपस्थितानां विषाणुजीवाणुनां कारणेन रोगाणां भय: सर्वदा भवति, टीकाकरणेन अस्माकं रोगेभ्यः रक्षणं भवति। टीकाकरणकार्यं कुर्वतां वैद्यानाम्, अग्रपङ्क्ति- स्वास्थ्य- सेवाकर्मचारिणां च परिश्रमस्य कृते अपि अयं दिवसः कृतज्ञतां प्रकटयितुम् अवसरः अस्ति।
१९९५ तमे वर्षे देशे १६ मार्च दिनाङ्के मौखिकपोलियो- टीकायाः प्रथमा मात्रा प्रदत्ता, तस्मिन् एव दिने भारतं पोलियो-मुक्तं कर्तुं सर्वकारेण पल्स- पोलियो- अभियानम् आरब्धम्। अस्मिन् अभियाने ० तः ५ वर्षाणि यावत् आयुषः सर्वेभ्यः बालकेभ्यः पोलियोविरुद्धं ‘२ जीवनस्य बिन्दवः’ दत्ताः, भारतं २०१४ तमे वर्षे पोलियो-मुक्तदेशः इति घोषितः।
राष्ट्रीयटीकाकरणदिवसः
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ता: माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment