नायबसिंहः सैनी हरियाणायाः नवीनः मुख्यमन्त्री, प्रधानमन्त्रिणः प्रदत्ता शुभकामनाः
मंगलवासरे हरियाणायाः राजनीतौ नाटकीयः घटनाक्रमः अभवत्। मुख्यमन्त्री मनोहरलालखट्टरः स्वपदात् त्यागपत्रं दत्तवान्। अस्य किञ्चित्कालानन्तरं भाजपा हरियाणा एककस्य अध्यक्षः नायबसिंह सैनी विधायिकादलस्य नेता निर्वाचितः । भाजपा विधायिकादलस्य संगोष्ठ्यानन्तरं दलस्य विधायकौ सुभाषसुधा, जेपी दलालः घोषणां कृतवन्तौ यत् नायबसिंहसैनी हरियाणाराज्यस्य नूतनः मुख्यमन्त्री भविष्यति। पञ्चवादने नायबसिंहः मुख्यमन्त्रीरूपेण शपथं ग्रहीतवान्। केन्द्रीय मन्त्री अर्जुनमुण्डा, दलस्य राष्ट्रीयः महासचिवः तरुणचुघः, हरियाणायाः कार्य प्रभारी बिप्लबदेबः केन्द्रीय पर्यवेक्षकरुपेण चोपस्थिताः आसन्।
नायबसिंहः सैनी हरियाणायाः नवीनः मुख्यमन्त्री
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment