भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन सह आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि
भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन-ईएफटीए इति समवायेन सह आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि । एतानि हस्ताक्षरितानि वाणिज्य-उद्योगमन्त्री पीयूषगोयलस्य उपस्थितौ जातानि । अस्मिन् अवसरे श्रीगोयलः अवदत् यत् यूरोपीयमुक्तव्यापारसङ्घस्य देशाः भारते शतकोटिरूप्यकाणां निवेशं करिष्यन्ति। अनेन अनेके जीविकोपार्जनस्य अवसराः सृज्यन्ते। ध्यातव्यमस्ति यत् यूरोपीयमुक्तव्यापारसंघस्य एतेषु देशेषु आइसलैण्ड्, लिस्टेंस्टीन, नॉर्वे, स्विट्ज़रलैंड च सन्ति।
भारतेन नवदिल्ल्यां ईएफटीए संघेन आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment