प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना श्रीनगरस्य बख्शी-क्रीडाङ्गणे विकसितभारतं विकसित जम्मू-कश्मीरः इति कार्यक्रमस्यान्तर्गतं चतुश्शताधिक षड्सहस्रकोटितोप्यधिक रुप्यकाणां परियोजनाः राष्ट्राय समर्पिताः। अत्रावधौ प्रधानमन्त्री कार्यक्रमं सम्बोधयन् अवोचत् यत् जम्मू-कश्मीरस्य विकासः प्रशासनस्यास्य शीर्ष प्राथमिकता वर्तते। तेनोदीरितं यत् नूतन जम्मूकश्मीरः समाह्वाह्नानां अपि समाधानं करिष्यति। संघराज्यस्य भ्रमणं कृत्वा श्रीमोदिना हर्षातिरेकवचोभिः प्रसन्नता प्रकटिता उक्तं च यत् पृथिव्यां स्वर्गं आगमनस्य भावः शब्दीविभवन व्यक्तं कर्तुं शक्यते। प्रधानमन्त्रिणा कृषकान्, महिलाः, उद्यमिनः समेत्य- विविधप्रशासनीययोजनानां लाभार्थिभिः सहापि संवादः विहितः। श्रीमोदी लाभार्थिनां प्रयत्नानां प्रशंसाम् अकरोत्। प्रशासनं देशस्य युवविचाराणां समर्थनाय सदव आतुरः अस्ति। नवोद्योग प्रवर्धनार्थं च सदख तत्परः। कार्यक्रमे प्रधानमन्त्रिणा केन्द्रक्षेत्रे कृषिअर्थव्यवस्थां वर्धयितुं प्रायः पञ्चसहस्रकोटिरूप्यकाणां व्यापक कृषिविकासकार्यक्रमः अपि राष्ट्राय समर्पितः। प्रसाद-योजनानन्तर्गतं चतुर्दशशत-कोटिरूप्यतोऽप्यधिकानां परियोजनानां शिलान्यासं लोकार्पणञ्च अकरोत्। प्रसाद-योजना धार्मिक स्थलानां पुनरूद्धारार्थं एवं आध्यात्मिक-न्यासान् प्रोत्साहन-प्रदानार्थं एकं अभियानमस्ति ।
श्रीनगरस्य बख्शी-क्रीडाङ्गणे विकसितभारतं विकसितः जम्मू-कश्मीरः कार्यक्रमे प्रधानमन्त्री
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment