केन्द्रीयमन्त्रिपरिषदः सभायां विकसितभारतस्य २०४७ तमस्य वर्षस्य दृष्टिपत्रस्य आगामिपञ्चवर्षस्य कार्ययोजनायाः विषये चर्चा
नवदिल्लीनगरे केन्द्रीयमन्त्रिपरिषदः सभा प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां सम्पन्ना । सभायां २०४७ वर्षपर्यन्तं भारतस्य विकासाय दृष्टिपत्रस्य, आगामिपञ्चवर्षस्य कार्ययोजनायाः च विस्तरेण चर्चा कृता । सूत्रानुसारं मे मासे नूतनसर्वकारस्य निर्माणस्य तत्क्षणात् परं शतदिनानां कार्ययोजना का भवितुमर्हति इति अपि सभायां चर्चा अभवत्।
विकसितभारतस्य योजना २ वर्षाणाम् अधिकायाः सज्जतायाः परिणामः अस्ति । अस्य कृते सर्वैः मन्त्रालयैः, राज्यसर्वकारैः, शैक्षणिकसंस्थाभिः, औद्योगिकसंस्थाभिः, विद्वतसमाजैः, वैज्ञानिकसंस्थाभिः च सह विस्तृतपरामर्शाः कृताः, युवानां कृते परामर्शाः अपि गृहीताः। तदतिरिक्तं द्विसहस्राणि सप्तशताधिकानि सभाः, कार्यशालाः, गोष्ठयः च आयोजिताः । २० लक्षाधिकानां युवानां परामर्शाः सर्वकारेण प्राप्ताः।
विकसितभारतस्य घोषणापत्रे राष्ट्रियदृष्टेः, आकांक्षाणां, लक्ष्याणां, कार्ययोजनानां च स्पष्टरूपरेखा प्रस्तुता भवति । अस्मिन् आर्थिकवृद्धिः, स्थायिविकासलक्ष्याणि, जीवनस्य गुणवत्ता, व्यापारस्य सुगमता, आधारभूतसंरचना, समाजकल्याणं चेत्यादिनि क्षेत्राणि सन्ति ।
सभायां बहवः केन्द्रीयमन्त्रिणः उपस्थिताः आसन्। अस्मिन् वर्षे एप्रिल-मे-मासेषु लोकसभानिर्वाचनं दृष्ट्वा सभा वर्तमानसर्वकारस्य मन्त्रिपरिषदः अन्तिमसमागमः भवितुम् अर्हति।