रामपुरस्य दत्तनगरे २१ कोटिरूप्यकै: शीतभण्डारस्य निर्माणं भविष्यति – जगतसिंहनेगी
हिमसंस्कृतवार्ता- शिमला।
राजस्वं, उद्यानं जनजातीयविकासमंत्री जागतसिंहनेगी शनिवासरे शिमलामण्डलस्य रामपुरस्य दत्तनगरे २१ कोटिरूप्यकाणां मूल्येन निर्माणाधीनस्य शीतस्य भण्डारस्य आधारशिलाम् अस्थापयत्। अस्मिन् शीतभण्डारे २५०० मेट्रिक-टन-क्षमतया सह एकलक्ष २५ सहस्र-सेबपेटीकानां भण्डारणं भविष्यति । शीतभण्डारस्य निर्माणेन चतुर्णां जनपदानां उद्यानपालकेभ्य: लाभ: भविष्यति । शिक्षामन्त्री रोहितठाकुर: विधायक: नन्दलाल: च अपि अस्मिन् अवसरे उपस्थितौ आस्ताम्।
रामपुरस्य दत्तनगरे २१ कोटिरूप्यकै: शीतभण्डारस्य निर्माणं भविष्यति – जगतसिंहनेगी
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment