अनुरागठाकुरः चिन्तपूर्णीविधानसभायाः कृते ५६ लक्षरूप्यकाणां अनुमोदनं कृतवान् , ३२ कोटिरूप्यकाणां राशिद्वारा भविष्यति मार्गाणां विस्तारः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हमीरपुरस्य सांसदः तथा केन्द्रीयमन्त्री अनुरागठाकुरः चिन्तपूर्णी विधानसभाक्षेत्रस्य विभिन्नपञ्चायतेषु विकासात्मककार्याणां कृते ५६ लक्षरूप्यकाणां अनुमोदनं कृतवान्। अस्य अतिरिक्तं प्रधानमन्त्रिग्रामसड़कयोजनायाः तृतीयचरणस्य ३२ कोटिरूप्यकाणि स्वीकृतानि सन्ति। चिंतपूर्णी भाजपा मण्डलस्य अध्यक्ष रविन्द्र द्विवेदी इत्यनेन उक्तं यत् चिन्तपूर्णी इत्यस्य विभिन्नमार्गाणां विस्तारः ३२ कोटिरूप्यकाणां राशिद्वारा भविष्यति।
L
अस्मिन् चुरुडुतः हम्बोलीमार्गेण धुसाडामार्गस्य निर्माणं भविष्यति। एतदतिरिक्तं भलोण आईटीआईत: भिण्डलापर्यन्तं , ग्रामपंचायत-टकरारा चौकत: बडुही सेतुपर्यन्तं मार्गस्य निर्माणं भविष्यति । नगरपंचायतस्य अम्बस्य गुरुरविदासमन्दिरत: आठवां भूत्वा ल्यूमिनस-उद्योगपर्यन्तं एकस्य मार्गस्य निर्माणं क्रियते।
अमृतकाल रेलस्थानकस्य कृते २२ कोटिरूप्यकाणां अनुमोदनम्
अमृतकालरेलस्थानकस्य नवीनीकरणाय अपि २२ कोटिरूप्यकाणि स्वीकृतानि सन्ति, यस्य कार्यं पूर्णतया प्रचलति। एतस्य अतिरिक्तं ग्रामपञ्चायतधर्मसालमहन्तायां पटियालबस्तीयां सामुदायिकभवनार्थं द्विलक्षरुप्यकाणि स्वीकृतानि सन्ति। ग्रामपंचायत भैरा समीपस्थे पंचायतगृहस्य सामुदायिकभवनाय द्विलक्षरुप्यकाणि स्वीकृतानि ।