सूचनाप्रसारणमन्त्रिणा अनुरागठाकुरेन चतुर्प्रकल्पाः प्रारब्धाः, यत्र व्यापारे भविष्यति सुगमता
सूचनाप्रसारणमन्त्री अनुरागठाकुरः गुरुवासरे सीबीसी, आरएनआई, न्यू मीडिया विंग, डिजिटल एड्रेसेबल सिस्टम् इत्येतेषाम् अन्तर्जालीयप्रकल्पानां प्रारम्भं कृतवान्। एतेषां चतुर्णां प्रकल्पानां प्रारम्भे सः दलं अभिनन्दितवान्। व्यापारस्य सुगमतां सुनिश्चित्य एते प्रकल्पाः निर्मिताः सन्ति। केन्द्रीयमन्त्री अनुरागठाकुरः अस्मिन् काले अवदत् यत् भारतं सम्प्रति स्टार्टअप-संस्थायां विश्वे तृतीयस्थाने अस्ति ।देशे १०७ एकशृङ्गाः सन्ति । सः अवदत् यत् पूर्वं व्यापारस्य आरम्भार्थं १४ स्तम्भाः पूरणीयाः आसन्, अधुना तु त्रयः स्तम्भाः एव सन्ति । अनुरागठाकुरः रामायणे रामसेतुनिर्माणकालस्य उल्लेखं कुर्वन् चिक्रोडः (गिलहरी) इत्यस्या उदाहरणं दत्तवान् । सः अवदत् यत् चिक्रोडः स्वशरीरे वालुकाम् आयोजयति स्म, सेतुः उपरि प्रोक्षयति स्म । रामप्रसादात् शृङ्गिणा एवम् अकरोत् अद्यापि स्मृतम् | तथैव प्रौद्योगिक्याः युगे सूचनाप्रसारणमन्त्रालयः चिक्रोडः योगदानवत् स्वस्य योगदानस्य कृते स्मर्यते ।
सूचनाप्रसारणमन्त्रिणा अनुरागठाकुरेन चतुर्प्रकल्पाः प्रारब्धाः, यत्र व्यापारे भविष्यति सुगमता
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment