मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति प्रक्रिया
हिमसंस्कृतवार्ता- मण्डी।
अन्ताराष्ट्रीय-शिवरात्रिमहोत्सवस्य मण्ड्या: सांस्कृतिकसंध्यासु भागं स्वीकर्तुं नवोदितानां कलाकाराणां स्वरपरीक्षणस्य सूची निर्गता अस्ति। २६ फेब्रुवरीतः २ मार्चपर्यन्तं स्वरपरीक्षणम् भविष्यति। युवा-सेवा-एवं-क्रीडाविभागस्य मण्डी टेनिसकक्षे पड्डलम् इत्यत्र प्रातः १०.३० वादनात् स्वरपरीक्षणम् भविष्यति।
सांस्कृतिक-उपसमिते: अध्यक्ष एवं अतिरिक्त-उपायुक्त: मण्डी रोहितराठौर: एतां सूचनाम् अददत्। सः अवदत् यत् मण्डीमण्डलस्य कलाकाराणां स्वरपरीक्षणम् फेब्रुवरी २६ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं त्रिदिनं यावत् भविष्यति, राज्यस्य अन्यजनपदानां कलाकाराणां स्वरपरीक्षणम् च फेब्रुवरी २९ दिनाङ्के मार्चमासस्य प्रथमदिनाङ्के च भविष्यति। मार्चमासस्य २ दिनाङ्कस्य दिवसः आरक्षितः भविष्यति। एडीसी इत्यनेन सूचितं यत् जिलामण्डी-नगरस्य कलाकारानां सुविधायै उपविभागश: स्वरपरीक्षणम् भविष्यति। मण्डीसदर, कोटली, पधरं, धर्मपुरम् 26 फरवरी, सुन्दरनगरं, बल्ह, बालीचौकी तथा जोगिन्दरनगरं 27 फरवरी तथा च करसोगं, गोहरं, थुनागं, सरकाघाटं च इत्येतेषां कलाकाराणां स्वरपरीक्षणम् 28 फरवरी दिनाङ्के भविष्यति।
सः अवदत् यत् राज्यस्य अन्यजनपदेषु कलाकाराणां स्वरपरीक्षणम् जिलाश: भविष्यति, यस्मिन् चम्बा, ऊना, हमीरपुरं, शिमला, बिलासपुरं जनपदानां कलाकाराणां स्वरपरीक्षणम् 29 फरवरी दिनाङ्के भविष्यति तथा च कुल्लू-किन्नौर-कांगड़ा-लाहौल स्पीति-सिरमौर-सोलनजनपदानां कलाकाराणां स्वरपरीक्षणम् 1 मार्च दिनाङ्के भविष्यति। सः अवदत् यत् गतवर्षे आयोजिते स्वरपीक्षण-कार्यक्रमे राज्यस्य मण्डी-नगरात् अन्येभ्यः च मण्डलेभ्यः क्रमशः गायने प्रथमत्रिपदवीं नृत्ये च प्रथमस्थानं प्राप्तवन्तः कलाकाराः स्वरपरीक्षणम् विना सांस्कृतिकसन्ध्यायां प्रदर्शनस्य अवसरं प्राप्स्यन्ति।