राममन्दिरे दृष्टाः अरबपतिजनाः, द्ररिद्रः न दृष्टः- राहुलगान्धी
काङ्ग्रेसनेतुः राहुलगान्धिनः भारतजोड़ो न्याययात्रा शुक्रवासरे उत्तरप्रदेशे प्रवेशं कृतवती। उत्तरं प्रदेशे प्राप्तमात्रेण राहुलगान्धी राममन्दिरस्य विषये मोदीसर्वकारं लक्ष्यं कृतवान् । तत्र अरबपतिः दृष्टः किन्तु दरिद्रः न दृष्टः इति सः अवदत्। राहुलः अवदत् यत् अरबपतिनां कृते कालीनम् स्थापितं, निर्धनानाम् कृते किमपि नास्ति। दूरदर्शने ऐश्वर्यारायस्य नृत्यं अबीताभबच्चनस्य बल्ले-बल्ले इत्येव दृष्टं परन्तु कस्यापि निर्धनस्य समस्या न अपश्यत्। राहुलः जनान् पृष्टवान् यत् राममन्दिरस्य आयोजने कोऽपि दरिद्रः कर्मकरः वा दृष्टः ? अमिताभ बच्चनः, ऐश्वर्या रायः, अदानी, अम्बानी च तत्र दृष्टाः। देशस्य राष्ट्रपतिः अपि न दृष्टा । बिहारतः रक्तवर्णीये वाहने उत्तरप्रदेशे प्रवेशं कृत्वा राहुलः राष्ट्रिय-अन्तर्-महाविद्यालयस्य प्राङ्गण-स्थले जनसभां सम्बोधयन् अवदत् यत् सीमां प्राप्य एव सः यूपी-नगरम् आगतः इति ज्ञातवान्। सः अवदत् यत् यदि भवन्तः मोदी-मित्राणि सन्ति तदपि यत् इच्छन्ति तत् गृहाण। यदि भूमि इच्छसि तर्हि गृहाण, रेलमार्गं इच्छसि , विमानस्थानकं इच्छति तत् गृह्यताम्,
राममन्दिरे दृष्टाः अरबपतिजनाः, द्ररिद्रः न दृष्टः- राहुलगान्धी
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment