हिमाचले निर्विरोधं न भविष्यति राज्यसभानिर्वाचनम्, भाजपादलस्य प्रत्याशी हर्षमहाजन:
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे राज्यसभानिर्वाचनं निर्विरोधं न भविष्यति। विधानसभायां बहुमतं नास्ति चेदपि गहननीतिम् (मास्टर स्टॉकं) क्रीडन् विपक्षदलं भाजपा राज्यसभानिर्वाचनार्थं स्वस्य प्रत्याशीं स्थापितवान्। भाजपादलेन काङ्ग्रेसतः भाजपादले समाविष्ट: हर्षमहाजन: स्वस्य प्रत्याशी घोषित: अस्ति। सः काङ्ग्रेसस्य अभिषेक मनुसिंघवी इत्यनेन सह सम्मुखीभवति।
गुरुवासरे विधानसभायां भाजपा-काङ्ग्रेस-उभौ प्रत्याशिनौ नामाङ्कनं प्रवेशितौ। भाजपादलेन राज्यसभायाः कृते हर्षमहाजनस्य उपरि विश्वासं कृत्वा सर्वे आश्चर्यचकिता कृता:। विधानसभायां काङ्ग्रेसस्य बहुमतं भवति इति कारणतः भाजपा अभ्यर्थिनः न स्थापयिष्यति इति विश्वासः आसीत्। २०२२ तमस्य वर्षस्य विधानसभानिर्वाचनात् कतिपयदिनानि पूर्वं हर्षमहाजनः भाजपायां सम्मिलितः आसीत्। हर्षमहाजनः काङ्ग्रेसस्य वरिष्ठः नेता अस्ति। सः काङ्ग्रेससर्वकारे अपि मन्त्री आसीत्। सः पूर्वमुख्यमन्त्रिण: स्वर्गीयस्य वीरभद्रसिंहस्य निकटसहकारिषु अन्यतमः आसीत्। सम्प्रति सः भाजपा राज्यकोरसमूहस्य सदस्यः अपि अस्ति।