सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचिक-बन्धपत्र-योजना निरस्तीकृता
सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचनिक-बन्धपत्र-योजना निरस्तीकृता। शीर्ष-न्यायालयस्य पञ्चसमूहात्मक-न्यायाधीशानां एकेन पीठेन निगदितं यत् इयं योजना नागरिकाणां सूचनाधिकारम् उल्लंघयति। सर्वोच्चन्यायालयेन भारतीयस्टेटबैंकः कथितः यत् शीघ्रमेव एतानि बन्धपत्राणि निषेधितानि भवितव्यानि अपि च अनेन माध्यमेन कृतस्य अनुदानस्य विवरणं भारतस्य निर्वाचनायोगाय प्रदातव्यम्। न्यायालयेन स्वीकृतं यत् अवैधप्रकारेण नियोजितस्य धनस्य प्रतिकूलाचरणाय दानदातृणां परोक्षभावनां स्थापनाय च घोषितोद्देश्यं अस्याः योजनायाः समर्थनं नैव कर्तुं शक्नुवन्ति। शीर्षन्यायालयेन प्रोदीरितं नैर्वाचनिकपत्रं अवैधधनानां नियन्त्रणाय एकमात्रं विधिः नैव भवति। ध्यातव्यमस्ति यत् इयं योजना या सर्वकारेण अष्टादशाधिक-द्विसहस्रतमवर्षस्य जनवरीमासस्य द्वितीये दिनाङ्के अधिसूचितासीत्, सा राजनीतिकानुदाने पारदर्शिताम् आनेतुं राजनीतिकदलेभ्यः प्रदीयमानस्य मुद्रादानस्य विकल्परूपेण प्रस्तुतासीत्।
सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचिक-बन्धपत्र-योजना निरस्तीकृता
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment