राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते
हिमसंस्कृतवार्ता: – जगदीश डाभी, मुम्बई।
बाहुबली, ‘आर आर आर’ इत्यादीनि सफल- चलचित्राणि निर्माणं कृतवत: एस एस राजामौली ‘एसएसएमबी २९’ इति चलचित्रस्य कारणेन वार्तायां वर्तते। ‘SSMB 29’ इति चलचित्रस्य अस्थायी नाम वर्तते। राजमौली इत्यस्य चलचित्रमिदं सहस्रकोटि- बजटेन निर्मितं भविष्यति। आय- व्ययकेन अनुसारम् एतत् चलचित्रं देशस्य बृहत्तमं चलचित्रं भविष्यति। दक्षिणस्य नायक: महेशबाबू अस्मिन् चलचित्रे मुख्यभूमिकायां दर्शनं दास्यति। प्राप्तसमाचारानुसारं महेशबाबुः अस्य चलचित्रस्य सज्जतां प्रारब्धवान्। महेशबाबू विदेशीयप्रशिक्षकात् प्रशिक्षणं गृह्णाति। एस. एस. राजमौली- महेशबाबूयोः अस्य चलचित्रस्य चित्रोतलनम् अतीव शीघ्रमेव आरभ्यते। एतस्मिन् समये विदेशीया अभिनेत्री चलचित्रे प्रविष्टा इति वार्ता आगच्छति। राजमौली इत्यस्य ‘आर आर आर’ इत्यस्मिन् विदेशीया अभिनेत्री अपि कार्यं कृतवती आसीत् अधुना तस्य नूतने चलचित्रे १००० कोटिरूप्यकाणां विदेशीया अभिनेत्री दृश्यते। प्राप्तसमाचारानुसारम् अमेरिकनजन्मनि इन्डोनेशियादेशस्य अभिनेत्री चेल्सी इस्लान ‘SSMB 29’ इति कार्यक्रमे प्रवेशं कृतवती। प्राप्तसमाचारानुसारं चेल्सी इस्लान इत्ययं चलचित्रे महत्त्वपूर्णा भूमिकायां दृश्यते। परन्तु चेल्सी इस्लान इत्यस्या: प्रवेशविषये अद्यापि आधिकारिकं वक्तव्यं न प्राप्तम्। एकावार्तानुसारं चेल्सी इस्लान अद्यैव एस. एस. राजमौली इत्यस्य इन्स्टाग्रामे अनुसरणं कृतवान्। इन्स्टाग्रामे तस्य अनुसरणं कृत्वा गत्वा चेल्सी इस्लान् राजामौली इत्यस्य नूतनस्य चलचित्रस्य भागः भवितुम् अर्हति।
राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment