Himachal News: हिमाचलप्रदेशत: अभिषेकमनुसिंघवी राज्यसभायै काङ्ग्रेसप्रत्याशी, शीर्षनेतृत्वेन कृतम् अनुमोदनम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशात् राज्यसभायां गमनस्य काङ्ग्रेसस्य प्रत्याशिन: विषये स्थितिः स्पष्टा अभवत्। काङ्ग्रेस शीर्षनेतृत्वेन बुधवासरे हिमाचलतः अभिषेक मनुसिंघवी राज्यसभाप्रत्याशीरूपेण नामाङ्कितः। अस्मिन् विषये दलस्य राष्ट्रियाध्यक्षेन मल्लिकार्जुनखड़गे इत्यनेन अनुमोदनं दत्तम्। राज्यसभानिर्वाचनार्थं नामाङ्कनपत्राणि १५ फरवरी दिनाङ्के सायं ५:०० वादनपर्यन्तं प्रवेशितानि भविष्यन्ति। अभिषेक मनुसिंघवी नामाङ्कनार्थं शिमलां प्राप्तवान्। शिमलाम् आगत्य सिंघवी हिमाचल विधानसभाम् अगच्छत्। अस्मिन् काले सः मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इत्यनेन सह मिलितवान्। मुख्यमन्त्री हिमाचलतः राज्यसभा निर्वाचनार्थं काङ्ग्रेस प्रत्याशी अभिषेक मनुसिंघवी इत्यस्मै हृदयेन अभिनन्दनं कृतवान्। मन्त्रिणौ हर्षवर्धनः जगतसिंहनेगी च स्वागतं कृतवन्तौ। श्वः नामाङ्कनं प्रवेशितं भविष्यति इति कथ्यते।
परिचय: – अभिषेकमनुसिंघवी
अभिषेकमनुसिंघवी काङ्ग्रेसस्य राष्ट्रियप्रवक्ता अस्ति। सम्प्रति सः पश्चिमबङ्गालतः राज्यसभासदस्यः अस्ति। सिंघवी त्रिवारं सांसदः अभवत्। सः देशस्य सर्वोच्चन्यायालयस्य वरिष्ठाधिवक्तृषु अन्यतमः अस्ति। सिंघवी इत्यस्य जन्म १९५९ तमे वर्षे फेब्रुवरी २४ दिनाङ्के मारवाड़ी-परिवारे अभवत्। तस्य पिता लक्ष्मीमल्लसिंहवी जैन-इतिहास-संस्कृतेः विद्वान् आसीत्। सः प्रसिद्धः अधिवक्ता, ब्रिटेनदेशे भारतस्य पूर्वोच्चायुक्तः च आसीत्। सः राज्यसभायाः सदस्यत्वेन निर्वाचितः (१९९८–२००४)। तस्य मातुः नाम कमलासिंघवी अस्ति।
सिंघवी १९९७ तमे वर्षे ३७ वर्षे भारतस्य कनिष्ठतमः अतिरिक्त- सॉलिसिटरजनरल अभवत्, १९९८ पर्यन्तं एकवर्षं यावत् एतत् पदं कृतवान्। सः २००१ तमे वर्षात् काङ्ग्रेसस्य राष्ट्रियप्रवक्ता अस्ति। २००६ तमे वर्षे एप्रिलमासे राज्यसभा सदस्यत्वेन निर्वाचितः। अगस्त २००६, मई २००९, अगस्त २००९, जुलाई २०११ पर्यन्तं च स: कार्मिकं, जनसमस्या, कानून एवं न्याय समिति: सदस्य: अभवत्। २००६ तमस्य वर्षस्य अगस्तमासात् २००७ पर्यन्तं सः विभिन्नमन्त्रालयानाम् सदस्यः आसीत्। सितम्बर २००६ तः सितम्बर २०१० पर्यन्तं सिंघवी विशेषाधिकारसमितेः सदस्यः आसीत् । जुलाई २०१० तः विदेशमन्त्रालयस्य परामर्शदातृसमितेः सदस्यः, जुलाई २०११ तः कार्मिक, लोकशिकायत, कानून तथा न्यायसमितेः सामान्यप्रयोजनसमिते: च अध्यक्षः आसीत्।