काङ्ग्रेसपक्षाय बृहद्-आघातः, लोकसभानिर्वाचनात् पूर्वमेव महाराष्ट्रस्य काङ्ग्रेसनेता अशोक चव्हाण: भाजपादलस्य सदस्यः सञ्जातः।
२०२४ तमे वर्षे लोकसभानिर्वाचनात् पूर्वमेव महाराष्ट्रस्य पूर्वमुख्यमन्त्री अशोक चव्हाण: भाजपादलस्य सदस्यः अभवत्, येन अशोक चव्हाणेन काङ्ग्रेसपक्षाय आघातः कृतः। अशोक चव्हाण: मंगलवासरे उपमुख्यमन्त्रिणः देवेन्द्र फडणवीसस्य उपस्थितौ भाजपादले सम्मिलितवान्। देवेन्द्र फडणवीस: अशोक चव्हाणं भाजपादलस्य प्राथमिकसदस्यता दत्तवान्। एकदिनपूर्वं अर्थात् सोमवासरे एव अशोक-चव्हाण: काङ्ग्रेस-पक्षतः त्यागपत्रं दत्तवान् आसीत्। भाजपादलम् अशोक चव्हाणं राज्यसभां प्रेषयिष्यति इति विश्वासः अस्ति। अशोक चव्हाण: सोमवासरे काङ्ग्रेसस्य प्राथमिक-सदस्यतायाः त्यागपत्रं दत्तवान् आसीत्।
अशोक चव्हाण: भाजपादलं सम्मिलितुं पूर्वं किम् उक्तवान्।
भाजपादले सम्मिलितुं पूर्वं महाराष्ट्रस्य पूर्वमुख्यमन्त्री अशोक चव्हाण: मंगलवासरे सत्ताधारी- भारतीयजनतापक्षे सम्मिलितः भविष्यति इति उक्तवान् आसीत्। सः पत्रकारैः सह उक्तवान् यत्, ‘अद्य अहं मुम्बईनगरस्य भाजपाकार्यालयं गत्वा तस्मिन् (भाजपा) सम्मिलितः अस्मि।’ अद्य मम जीवने नूतनराजनैतिकवृत्तेः आरम्भः अस्ति। यदा चव्हाण: पृष्टः यत् काङ्ग्रेसस्य वरिष्ठनेतारः सोनिया गान्धी, राहुलगान्धी च तस्मै किमपि आह्वानं कृतवन्तः वा इति तदा सः उत्तरं न दत्तवान्।
त्यागपत्रस्य कारणं न दत्तवान् अशोक चव्हाण:।
पूर्वमुख्यमन्त्री एस.बी.चव्हाणस्य पुत्रः अशोक-चव्हाण: (६५) सोमवासरे काङ्ग्रेसपक्षं त्यक्त्वा गन्तुं स्वतन्त्रः निर्णयः इति बोधितवान्, तस्य निर्णयस्य किमपि विशिष्टं कारणं न दत्तवान्। महाराष्ट्रस्य वरिष्ठाः काङ्ग्रेसनेतारः बाबा सिद्दीकी, मिलिन्द देवड़ा च कतिपयदिनानि पूर्वं दलं त्यक्तवन्तः आसन्। चव्हाण: मराठवाड़ा-क्षेत्रस्य नांदेड़मण्डलस्य निवासी अस्ति। २०१४-१९ मध्ये सः काङ्ग्रेसस्य राज्य- एकक- प्रमुखः अपि आसीत्। सः भोकर-विधानसभाक्षेत्रस्य प्रतिनिधित्वं कृतवान्, नांदेड़-लोकसभा-क्षेत्रस्य सांसदः अपि अभवत्।