कृषकैः सह वार्तालापं कर्तुं सर्वकारः सर्वदा सज्जः अस्ति तथा च तेषां समस्यानां समाधानं प्राप्तुं कर्तुं च नैके प्रयासः क्रियन्ते- अर्जुनमुण्डा
केन्द्रीयकृषिमन्त्रिणा अर्जुनमुण्डा इत्यनेन उक्तं यत् कृषकैः सह वार्तालापं कर्तुं सर्वकारः सर्वदा सज्जः अस्ति तथा च तेषां समस्यानां समाधानं प्राप्तुं कर्तुं च नैके प्रयासः क्रियन्ते। नव दिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वता मुण्डामहोदयः अवदत् यत् कृषकाणां हितस्य रक्षणाय सर्वकारः बाध्यः अस्ति। सः अवदत्, कृषकाणां विषयः राज्यसर्वकारैः सहापि सम्बद्धः अस्ति, चर्चायाः मञ्चं निर्मीय समाधानं अन्वेष्टुं आवश्यकता वर्तते।
कृषकैः सह वार्तालापं कर्तुं सर्वकारः सर्वदा सज्जः अस्ति – अर्जुनमुण्डा
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment