व्याकरणस्य महत्वं वेदाङ्गत्वं च
वेदानां रक्षार्थं ऋषिभि: निर्मितानि षट् शास्त्राणि वेदाङ्गानीति ख्यायन्ते।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चय:।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव हि।।
एतेषां शास्त्राणां मनुष्यस्य शरीरावयवै: साधर्म्यं दर्शयता उक्तं पाणिनीयशिक्षियाम्–
छन्द: पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते।
ज्योतिषामयनं चक्षु: निरुक्तं श्रोत्रमुच्यते।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते।।
यथा शरीरावयवेषु मुखरूपस्य अवयवस्य प्राधान्यं तथैव षडङ्गेषु व्याकरणमेव प्रधानम्। अत: एव वाक्यपदीयकारेण ‘प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधा:।’, ‘ तत्त्वावबोध: शब्दानां नास्ति व्याकरणादृते।’, ‘इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धति:’ इत्यादिभि: बहुभि: उक्तिभि: व्याकरणं प्रशंसितम्।
भाष्यकार: अपि वदति, ‘ प्रधानं षट्स्वङ्गेषु व्याकरणम्। प्रधाने हि कृतो यत्न: फलवान् भवति’ इति।
उच्यते – प्रयोजनमनुद्दिश्य मन्दोपि न प्रवर्तते।
अत: व्याकरणे अध्ययनप्रवृत्तिजननाय प्रयोजनानि वक्तव्यानि। भाष्यकार: वदति– ‘ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोध्येय: ज्ञेयश्च।’ निष्कारणम् इत्युक्ते लाभालाभौ अविगणय्य व्याकरणादिषडङ्गसहितं वेदाध्ययनं करणीयम्। तेन धर्ममोक्षौ पुरुषार्थौ सिध्यत:।
पुनश्च भाष्यकार: वदति – ‘एक: शब्द: सम्यग्ज्ञात: सुप्रयुक्त: लोके वेदे च कामधुक् भवति।’ एतेन दृश्यते यत् सुशब्दपरिज्ञानात् प्रयोगाच्च लोके अर्थकामावपि पुरुषार्थौ सफलीभवत:।
व्याकरणाध्ययनस्य मुख्यानि पञ्च प्रयोजनानि पतञ्जलिना उक्तानि– ‘रक्षोहागमलघ्वसन्देहा: प्रयोजनम्’ इति। वेदरक्षणार्थं वैदिकशब्दानां ज्ञानमावश्यकं तत् व्याकरणं विना न भवेत्।
व्याकरणेन लौकिकशब्दानामपि ज्ञानं भवति यै: विना लोकव्यवहार: नैव सिध्येत्। शब्दमयमिदं व्यवहारजगत्। उक्तं च दण्डिना–
इदमन्धं तम: कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।
एवं भगवान् भर्तृहरि: अपि–
न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।
अपशब्दप्रयोगेन अधर्म: भवति तेन च पुरुषार्थाणां हानि: भवति। अत: अपशब्दान् ज्ञातुं निवारयितुं च व्याकरणाध्ययनम् आवश्यकम्। व्याकरणेन साधुशब्दज्ञानं भवति तथा च उच्चारणशुद्धिरपि भवति। तेन प्रमादयुक्तोच्चारणात् जायमान: अनर्थ: नश्यति। अत एव पिता पुत्रं वदति–
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनो श्वजनो मा भूत् सकलं शकलं सकृत् शकृत्।।
वेदसंहितासु एव व्याकरणस्य विशिष्टविषयरूपेण विचार: करणीय: इति प्रथमभानं दृश्यते। गोपथब्राह्मणे अपि व्याकरणसम्बद्धानाम् नैकासां पारिभाषिकसंज्ञानां प्रयोग: कृत: अस्ति– ‘ओङ्कारं पृच्छाम:। को धातु: किं प्रातिपदिकं, किं नामाख्यातं किं लिङ्गं किं वचनम् ….इत्यादि:।
मैत्रायणीसंहितायाम् ऐतरेयब्राह्मणे प्रप्रथमं विभक्तिशब्दस्य उपयोग: दृश्यते। वस्तुत: पुराणकालं यावत् व्याकरणस्य स्वरूपं विकसितं जातमासीत्।
पाणिनिपूर्वकाले बहव: वैयाकरणा: बभूवु:। पाणिनिपूर्वाणाम् आहत्य ८५ वैयाकरणानाम् उल्लेख: प्राप्यते। स्वयं पाणिनिनाअष्टाध्याय्यां दशानां पूर्ववर्तिवैयाकारणानां नामानि परिगणितानि सन्ति। अष्टानां प्रसिद्धव्याकरणानाम् उल्लेख: प्राप्यते।
ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम्।
त्वाष्ट्रमापिशलं चैव पाणिनीयमथाष्टमम्।।
तथापि एतेषु पाणिनिकृतं व्याकरणं तस्य समग्रत्वात् वैज्ञानिकस्वरूपत्वात् च सर्वप्रसिद्धिं प्राप्नोत्। अन्यानि व्याकरणानि लुप्तप्रायाणि अभवन्।
श्री अभिजित्-तोडकर: सुभाषितशिक्षणप्रमुख: संस्कृतभारती, पश्चिममहाराष्ट्रप्रान्त:।