उपमुख्यमंत्रिण: मुकेश-अग्निहोत्रिण: धर्मपत्न्या: निधनम्
हिमसंस्कृतवार्ता- ऊना।
हिमाचलप्रदेशस्य उपमुख्यमन्त्रिण: मुकेश-अग्निहोत्रिण: धर्मपत्न्या: प्रो. सिम्मी अग्निहोत्रीवर्याया: निधनं जातम्। अस्य सूचना स्वयमेव उपमुख्यमंत्रिणा मुकेश-अग्निहोत्रिणा स्वीये आभासीयेपृष्ठे प्रदत्ता। तत्र तेन उल्लिखितम् यत् –
अतीव दुःखितहृदयेन वयं भवन्तं सूचयामः यत् प्रो. सिम्मी अग्निहोत्री मर्त्यलोकं त्यक्त्वा भगवतः चरणयोः विलीना अभवत्।
अन्तिम दर्शन हेतवे अपराह्णे १:०० वादनपर्यन्तम् तस्या: पार्थिवशरीरं पैतृकग्रामे गोंदपुरजयचन्दे स्थिते निजनिवासे आस्थाकुंजे स्थाप्यते ।
अन्तिमसंस्कारः 10 फरवरी शनिवासरे अपराह्णे 02:00 वादने मोक्षधामे गोन्दपुर जयचन्दे (हरोली) इत्यत्र भविष्यति।
हिमसंस्कृतवार्ता कुटुम्बम् सिम्मी अग्निहोत्रीवर्याया: असामायिके निधने अतिशोकं प्रकटयति अपि च शोकसंतप्तपरिवाराय संवेदनां प्रकटयति दु:खं सोढुं शक्तिं प्रदातुं च ईश्वरं प्रार्थयति।