HPAS Mains Result: हिमाचल-प्रशासनिकसेवाया: मुख्यलिखितपरीक्षाया: परिणाम: घोषित: , १६ अभ्यर्थिन: उत्तीर्णा:
हिमसंस्कृतवार्ता- शिमला।
राज्यलोकसेवा- आयोगेन गुरुवासरे हिमाचलप्रदेश- प्रशासनिकसेवाप्रतियोगगी (मुख्य) परीक्षा-२०२३ इत्यस्य परिणामः घोषितः। एषा परीक्षा २०२३ तमस्य वर्षस्य दिसे्म्बरमासस्य १३ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं अभवत्। एचएएस इत्यस्य प्रारम्भिकपरीक्षायां कुलम् २२७ अभ्यर्थिनः योग्याः घोषिताः। यत्र मुख्यलिखितपरीक्षायां सर्वेषु पत्रेषु २१६ अभ्यर्थिनः उपस्थिताः आसन्। मुख्यपरीक्षायां प्रदर्शनस्य आधारेण १६ अभ्यर्थिनः व्यक्तित्वपरीक्षणाय (मौखिक परीक्षा) योग्याः घोषिताः सन्ति। परिणामः आयोगस्य जालपुटे (http://www.hppsc.hp.gov.in/hppsc) अपि उपलभ्यते। आयोगस्य अनुसारं यद्यपि परिणामस्य निर्माणे अत्यन्तं सावधानी कृता तथापि अनवधानेन/ तकनीकीदोषस्य सम्भावना न निराकृता अस्ति।
आयोगस्य पार्श्वे तस्य संशोधनस्य अधिकारं सुरक्षितं कुर्वन् अस्ति। मुख्यपरीक्षायां योग्यघोषितानां अभ्यर्थिनां साक्षात्कार: 04 मार्च 2024 दिनांके लोकसेवा-आयोगस्य कार्यालये निगमविहारे शिमलायां भविष्यति। अभ्यर्थीनां कृते अनुसूची, सत्यापनप्रपत्रं, व्यक्तित्वपरीक्षा, आह्वानपत्रं, निर्देशाः च समये आयोगस्य आधिकारिकजालस्थले अपलोड करिष्यन्ति। सर्वेषां योग्यानां अभ्यर्थीनां सूचनां प्राप्तुं समये समये आयोगस्य आधिकारिकजालस्थले गच्छन्तु इति परामर्श: दत्तः अस्ति। ये अभ्यर्थिनः व्यक्तित्वपरीक्षायाः दस्तावेजान् डाउनलोड् कर्तुं न शक्नुवन्ति ते तत्क्षणमेव लोकसेवा- आयोगकार्यालयस्य दूरभाषसङ्ख्या 0177-2624313 तथा आयोगस्य टोलफ्री नम्बर 1800-180- 8004 इत्यनेन सम्पर्कं कर्तुं शक्नुवन्ति।