मोदीप्रशासनस्य कठोर: निर्णय:, म्यांमारदेशेन साकं संलग्नसीमनि विधास्यते 1643 किलोमीटरमितं सुदीर्घं लम्बायमानं कण्टकबन्धनम्
हिमसंस्कृतवार्ताः, युवराजभट्टराई। प्रधानमन्त्रिण: मोदि-प्रशासनस्य द्वितीय: कार्यकाल: अवसितप्रायः अस्ति। 2024 तमवर्षीय-लोकसभेय-निर्वाचनेभ्य: पूर्वं प्रधानमन्त्रिणा भारत-म्यांमार-देशयो: सीमनि सुरक्षाव्यवस्थां सुदृढीकर्तुं एक: सशक्त: कठोरश्च निर्णय: अस्ति अभिस्वीकृत: । म्यांमारदेशसीम्नि भारत सर्वकारः अवैधगतिविधीन् अवरोद्धुं 1,643 किलोमीटर-मितां सुदीर्घां फेंसिंग इति कण्टक-बन्धनं कर्तुं तत्परीभवति। एतदतिरिच्य सीमसङ्लग्ने क्षेत्रे सुष्ठुतर-निशित-निरीक्षण-सौविध्यार्थं सीमनि एक: गश्तीति गवेषणा-मार्गोSपि निर्मास्यते। ध्यानास्पदम् अस्ति यत् सीम्न: समग्रसुदीर्घताया: अन्तर्गत, मणिपुरस्य मोरेह-क्षेत्रे 10 किलोमीटर-मिते क्षेत्रे पूर्वमेव कृतमस्ति फेंसिंग इति कण्टक-बन्धनम्।
मोदीप्रशासनस्य कठोर: निर्णय:, म्यांमारदेशेन साकं संलग्नसीमनि कण्टकबन्धनम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment