साहित्य अकादमी दिल्ली। साहित्याकादमीद्वारा “युवा-साहिती” समनुष्ठास्यते
साहित्य अकादमीद्वारा दिल्ल्यां प्रगति मैदान प्राङ्गणे ऐषमो विश्व-पुस्तक-मेलापकस्य अवसरे फरवरी मासस्य चतुर्दश्यां वसन्तपञ्चम्या: पावने अवसरे “युवा साहिती” इति प्रकल्पस्य अन्तर्गतं द्वि-सङ्ख्याके सभागारे कवीनां काव्यरचनापाठ: आयोक्ष्यते। अस्मिन् साहित्यिके समनुष्ठाने संस्कृतभाषाया: साहित्यकारत्वेन कवित्वेन च समवाप्तयुवपुरस्कार: डॉ. युवराजभट्टराईवर्य: समामन्त्रितो वर्तते।
असौ तत्र काव्यपाठकार्यक्रमे देवगणपूताया: ऋषिमुनिसाधिताया: संस्कृतमातु: समर्चायां नैजी: भूरि संस्कृतरचना: प्रस्तोष्यति। अस्य कविसम्मेलनस्य समायोजनस्य वास्तविक: उद्देश्य: नागरिकेषु साहित्यम्प्रति कविताम्प्रति च आकर्षणपूर्वकं तेषां जागरूकताया: रुचिमत्तायाश्च प्रवर्धनं समुत्पादनञ्चास्ति।
साहित्य अकादमी दिल्ली द्वारा “युवा-साहिती” समनुष्ठास्यते
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment