विक्रमादित्यसिंह : – भगवान् रामः सर्वेषां एव , वयं सनातनहिन्दव:, कस्यचित् धार्मिकप्रमाणपत्रस्य आवश्यकता नास्ति
हिमसंस्कृतवार्ता- शिमला।
लोकनिर्माण- नगरविकासमन्त्री विक्रमादित्यसिंहः अवदत् यत् सः सनातनः हिन्दू अस्ति, तस्मै कस्यचित् धार्मिकप्रमाणपत्रस्य आवश्यकता नास्ति। भगवान् रामः न केवलं भाजपाजनैः अपितु अस्माभिः सर्वैः अपि पूज्यते, परन्तु वयं भगवतः रामस्य विषये राजनीतिं न कुर्मः। सः अवदत् यत् स्व. वीरभद्रसिंहः राज्ये धर्मान्तरणविरोधी विधेयकम् आनीतवान् आसीत्। तदा हिमाचलराज्यं देशस्य प्रथमं राज्यम् आसीत् यत् एतादृशं नियमम् आनयत्। देवसंस्कृतेः प्रचारार्थं वीरभद्रसिंहः स्वसमये अनेकानि पदानि स्वीकृतवान्। देवी-देवतानां श्रद्धांजलि अर्पयितुं आरब्धवान् देव सदनानां निर्माणं च कृतवान्। सः अवदत् यत् राज्ये प्रधानमन्त्री ग्रामसड़कयोजनायाः तृतीयचरणस्य २८०० कोटिरूप्यकाणि व्यय्यन्ते।
अस्मिन् मार्गसुधारस्य, उन्नयनस्य च कार्यं भविष्यति। सः अवदत् यत् गतवर्षे राज्ये या घोरदुःखदघटनायां जनान् संबलं दातुं सुक्खुसर्वकारेण स्वसम्पदां 4500 कोटिरूप्यकाणां संकुलं विमोचितम्। अस्मात् सराजविधानसभाक्षेत्रे अधिकतमा आश्रयराशि: वितरिता अस्ति। आपदराहतराशिः अपि मुख्यमन्त्रिणा जनानां संबलप्रदानार्थं बहुगुणा वर्धिता। इतरथा सांसदप्रतिभासिंह अवदत् यत् पूर्वमुख्यमन्त्री जयरामठाकुरस्य कार्यकाले सिराजविधानसभाक्षेत्रे स्थले कोऽपि कार्यम् न कृतम्। भवनानि विना किमपि औचित्यं निर्मितानि आसन्। एतानि भवनानि अधुना श्वेतगजाः एव तिष्ठन्ति। सः अवदत् यत् राज्यसर्वकारेण एकवर्षीयकार्यकाले ग्रामेषु विकासः नीतः। यस्य कारणात् प्रत्येकं खण्डं लाभं प्राप्नोति।