नाबार्ड ऋणगोष्ठी- प्राथमिकताक्षेत्राणां विकासः ३४,४९० कोटिरूप्यकेण भविष्यति, ऋणसंभाव्ययोजना सज्जा
हिमसंस्कृतवार्ता:- शिमला।
नाबार्ड इत्यनेन २०२४-२५ मध्ये हिमाचलप्रदेशे कृषिसम्बद्धक्रियाकलापानाम्, एमएसएमई इत्यादीनां प्राथमिकताक्षेत्राणां कृते ३४,४९०.६० कोटिरूप्यकाणां ऋणसंभावनायोजना निर्मिता अस्ति। इदं ऋणप्रभावमूल्यांकनं २०२४-२५ तमस्य वर्षस्य राज्यबैङ्कयोजनायाः आधारः भविष्यति। गतवर्षस्य तुलनायां ऋणप्रवाहः अष्टप्रतिशतं वर्धितः अस्ति। एतेन ऋणप्रवाहेन प्राथमिकताक्षेत्राणां विकासः भविष्यति। एषा सूचना राजधान्यां शिमलानगरे बुधवासरे २०२४-२५ वित्तीयवर्षस्य कृते राष्ट्रियकृषिग्रामीणविकासबैङ्कद्वारा आयोजितायां राज्यऋणगोष्ठ्यां दत्ता। संगोष्ठ्याः उद्घाटनं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अकरोत्। मुख्यमन्त्री नाबार्ड राज्यकेन्द्रीकरणपत्रं २०२४-२५ इत्यपि औपचारिकरूपेण अपि विमोचितवान्। एतस्य अतिरिक्तं नाबार्डस्य विभिन्नेषु विकासकार्यक्रमेषु उत्तमं प्रदर्शनं कृत्वा हितधारकाणां सम्मानः अपि अभवत्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यसर्वकारेण जनानां सामाजिक-आर्थिक-उत्थानार्थं मुख्यमन्त्री स्वावलम्बनयोजना, उद्यानस्य एकीकृतविकासस्य मिशनम्, मुख्यमन्त्री लघु- आपणिक- कल्याणयोजना, मुख्यमन्त्री हरित-कवरमिशन, मुख्यमन्त्री रोजगार संकल्प सेवा, मुख्यमन्त्री विद्यार्थी योजना मुख्यमंत्री स्टार्टअप इत्यादयः अनेका: योजना: प्रारब्धा: सन्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः एतासां योजनानां समुचितकार्यन्वयनार्थं ऋणप्रदानार्थं वित्तकोषेभ्यः सहकार्यं कर्तुम् आग्रहं कृतवान्, येन कृषकाः, उद्यानपालका:, युवानः च एतासां योजनानां लाभं ग्रहीतुं शक्नुवन्ति। मुख्यमन्त्री उक्तवान् यत् प्राथमिकताक्षेत्रस्य ऋणप्रवाहविषये भारतीयरिजर्वबैङ्केन निर्गतनिर्देशानुसारं राज्यस्य कोऽपि जनपद: ऋणहीनजनपदेषु न भवति। सः अवदत् यत् यद्यपि एतेषु जनपदेषु ऋणप्रवाहः सामान्यः अस्ति तथापि राज्यस्य ऋणनिक्षेपानुपातः ३६:३९ प्रतिशतं भवति। सः अवदत् यत् बिलासपुरं, हमीरपुरम्, काङ्गड़ा, मण्डी, ऊना, लाहौल-स्पीति, चम्बा इत्यत्र ऋण-निक्षेप-अनुपातः निरन्तरं ४० प्रतिशतात् न्यूनः अस्ति, यत् चिन्ताजनकम् अस्ति। सः वित्तकोषान् अन्यान् हितधारकान् च एतेषु जनपदेषु ऋण- निक्षेप- अनुपातं वर्धयितुं आवश्यकानि पदानि स्वीकुर्वन्तु उपरि बलं दत्तवान्।