हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशसर्वकारेण अङ्कीयमाध्यमनीतिः २०२४ इति सूचितं कृत्वा कार्यान्विता। अस्य अन्तर्गतं त्रिप्रकारस्य वर्गाः निर्मिताः सन्ति। एतेषु एकं समाचारजालचैनलरूपेण, अपरं समाचारजालस्थलरूपेण पोर्टलरूपेण च तृतीयं च सामाजिकमाध्यमप्रभावकानां वा संचालकरूपेण वा निर्मितं भवति। प्रधानसचिवसूचना एवं जनसंपर्क: भरत खेड़ा द्वारा एतदर्थं गतदिवसे अधिसूचना प्रसारिता। तदनुसारं क, ख, ग वर्गाः निर्मिताः सन्ति। क श्रेण्यां फेसबुक, यूट्यूब इत्यादिमाध्यमानां माध्यमेन ३० लक्षाधिकाः ग्राहकाः भवेयुः, ख श्रेण्यां १० तः ३० लक्षं यावत्, ग श्रेणीयाः ५ तः १० लक्षं यावत् ग्राहकाः भवेयुः। एतेषां भिन्नवर्गाणां कृते विज्ञापननिर्गमनस्य भिन्नानि दराणि निर्धारितानि सन्ति।
केवलं ते समाचारजालस्थलानां जालपुटानां च सम्पादकाः सूचीबद्धाः भविष्यन्ति येषां पत्रकारितायां जनसञ्चारविषये स्नातकपदवीं वा उपाधि (डिप्लोमा) वा अस्ति अथवा पत्रकारितायाः न्यूनातिन्यूनं १० वर्षाणाम् अनुभवः अस्ति। उल्लेखनीयं यत् हिमाचलप्रदेशे २०१४ तः डिजिटलमाध्यमनीतेः याचना वर्धमाना आसीत्। नियुक्ति- दरपरामर्शदातृसमित्याम् राज्यसर्वकारेण अध्यक्षत्वेन अतिरिक्तं संयुक्तनिदेशकप्रशासनं, सदस्यसचिवरूपेण तकनीकीप्रभारीपदाधिकारिणं, सदस्यत्वेन वित्तसहायकनियन्त्रकं लेखकं च सदस्यत्वेन प्रभारीविज्ञापनपदाधिकारिणं च कृतम्।