इटलीदेशस्य युवा-टेनिसक्रीडकेन “यानिक-सिनर” इत्यनेन रचितः इतिहासः, १० वर्षानन्तरं पुरुषाणां आस्ट्रेलिया-ओपन-क्रीडायां नूतनः विजेता अभवत्।
नरेश मलोटिया
इटलीदेशस्य युवा टेनिसक्रीडकेन यानिक-सिनरेण इतिहासः निर्मितः। अयं २२ वर्षीयः क्रीडकः आस्ट्रेलिया-ओपन-क्रीडायां पुरुष-एकल- अन्तिम-क्रीडायां विजयं प्राप्तवान्। जनवरी-मासस्य २८ तमे दिनाङ्के रविवासरे उपाधि-क्रीडायां सः पञ्च-सेट-क्रीडायां रूस-देशस्य दानिल-मेदवेदेवं पराजितवान्। सिनरः प्रथमः इटालियन-क्रीडकः अभवत्, यः आस्ट्रेलिया- ओपन- क्रीडायां पुरुष-एकल- अन्तिम-क्रीडायां विजयं प्राप्तवान्। सः अस्मिन् मेलने ३-६, ३-६, ६-४, ६-४, ६-३ इति अन्तरेण विजयं प्राप्तवान्। सिनर: स्वस्य उपलब्धे: (करियर) प्रथमं ग्राण्डस्लैम् उपाधिं प्राप्तवान् अस्ति। सः मेदवेदेवस्य स्वप्नं भङ्गं कृतवान्। रूसी-क्रीडकस्य दृष्टिः प्रथमवारं आस्ट्रेलिया-ओपन-क्रीडायां विजयं प्राप्तुं आसीत्, परन्तु इटालियन-युवकः यानिक: तं पराजितवान्। मेदवेदेवः पूर्वं २०२१ तमे वर्षे यूएस- ओपन- स्पर्धायां विजयं प्राप्तवान्। विदितं स्यात् यत् मेदवेदेवः प्रथमसेट विजितवान्। सः सिनरं ६-३ इति अन्तरेण पराजितवान्। मेदवेदेवः द्वितीयसेट- मध्ये अपि तीव्र-क्रीडां दर्शितवान्। सः सिनराय पुनरागमनस्य किमपि अवसरं न दत्त्वा ६-३ इति स्कोर द्वारा सेट विजितवान्। एवं प्रकारेण सः मेलने २-०तः अग्रे अभवत्। सिनरः पुनरागमनं कृत्वा तृतीयसेट- मध्ये ६-४, चतुर्थसेट- मध्ये अपि ६-४ इति अन्तरेण विजितवान्। सः तृतीयसेट ६-३ इति स्कोर- द्वारा जित्वा मेलनं विजितवान्।