हिमाचलप्रदेश : – केन्द्रीयमंत्रिणा नितिनगडकरिणा सह अमिलत् लोकनिर्माणमंत्री विक्रमादित्यसिंह:
मार्गाय १५० कोटिरुप्यकाणि अनुमोदितानि
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः गुरुवासरे नवदेहल्यां केन्द्रीयमार्गपरिवहनराजमार्गमन्त्रिणा नितिनगडकरिणा सह मिलितवान्। अस्मिन् काले विक्रमादित्यः केन्द्रीयमन्त्रिणा सह राज्यस्य मार्गसम्बद्धेषु विविधविषयेषु चर्चां कृतवान् । विक्रमादित्यसिंहः स्वयमेव एतां सूचनां स्वस्य सोशलमीडियापटले दत्तवान्। विक्रमादित्यः अवदत् यत् गुरुवासरे केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन राज्यस्य लोकनिर्माणविभागाय विभिन्नेषु एनएच्-स्थलेषु मार्गानाम् उन्नयनाय, पुनर्स्थापनायै च १५० कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। तदर्थं तस्मै कृतज्ञता ज्ञापयते । विक्रमादित्यः लिखितवान् यत् हिमाचलस्य विकासे वयं कस्यापि प्रकारस्य न्यूनता न भविष्यति।
हिमाचलप्रदेश : – केन्द्रीयमंत्रिणा नितिनगडकरिणा सह अमिलत् लोकनिर्माणमंत्री विक्रमादित्यसिंह:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment