मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – विदेशेषु अपि हिमाचलीयुवभ्य: सर्वकारः जीविकां प्रदास्यति राज्यसर्वकार:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः श्रम-रोजगारविभागाय हिमाचलीयुवभ्य: विदेशेषु कार्यावकाशान् अन्वेष्टुं निर्देशं दत्तवान्। सः नियोक्तृणां सुविधायै कुशलजनशक्तिसम्बद्धानि सम्पूर्णानि विवरणानि अंकीयं कर्तुं पृष्टवान्। इजरायल्-स्कैण्डिनेवियन्-देशेषु चिकित्सा-नर्सिंग्-कर्मचारिणां याचना वर्धिता इति अवदत् । पर्यटनस्य स्थानीयजनानाञ्च सुविधां दृष्ट्वा रज्जुमार्गस्थापनार्थं अतिरिक्तस्थलानि चिह्नितव्यानि । सुक्खुः अवदत् यत् बीजलीमहादेव-रोपवे-निर्माणार्थं केन्द्र-राज्यसर्वकारयोः मध्ये एमओयू-पत्रं कृतम् अस्ति, एषा परियोजना अद्वितीया भविष्यति।
गतदिवसे प्रशासनिकसचिवानां साप्ताहिकसभायां मुख्यमन्त्री प्रत्येकमासस्य अन्तिमदिनद्वये राजस्वस्य लोकन्यायालयस्य च आयोजनं कर्तुं निर्देशं दत्तवान्। इंतकालस्य ६५,००० तः अधिकाः लम्बितप्रकरणाः, तकसीमस्य च ४,००० तः अधिकाः प्रकरणाः अद्यावधि न्यायालयेषु निस्तारिताः सन्ति । राजीवगान्धी स्टार्टअप योजनायाः अन्तर्गतं सौर ऊर्जा परियोजनानां स्थापनायाः अपि च मत्स्यपालनस्य कृते आर्थिकसहायता प्रदत्ता भविष्यति। वन मित्राणां नियुक्तिप्रक्रिया वनविभागे प्रचलति, शारीरिकपरीक्षा अपि आगामिमासस्य प्रथमसप्ताहात् आरभ्यते।