भारतरत्नम् : कर्पूरीठाकुरं मरणोपरान्तं भारतरत्नम् ; वञ्चितानां हितार्थं सदैव कार्यं कृतवान् बिहारस्य पूर्वमुख्यमन्त्रिः
द्विवारं बिहारस्य पूर्वमुख्यमन्त्रिः कर्पूरी ठाकुरः सर्वोच्चनागरिकसम्मानेन ‘भारतरत्नम्’ इत्यनेन पुरस्कृतः भविष्यति। मृत्योः अनन्तरं तस्मै एषः सम्मानः दीयते इति घोषितम् अस्ति । कर्पूरी ठाकुरस्य शततमं जन्मदिवसः २४ जनवरी दिनाङ्के अस्ति। अस्मात् एकदिनपूर्वं केन्द्रसर्वकारेण तस्मै एतत् सम्मानं दातुं घोषितम्। बिहारतः सर्वोच्च नागरिकसम्मानं प्राप्य सः तृतीयः जनः भविष्यति।
कर्पूरी ठाकुरः वञ्चितवर्गस्य हितार्थं कार्यं कर्तुं प्रसिद्धः आसीत् । सः बिहारतः तृतीयः जनः भविष्यति यः सर्वोच्चं नागरिकसम्मानं प्राप्स्यति। तेन पूर्वं प्रथमराष्ट्रपति डॉ. राजेन्द्रप्रसादः किञ्च लोकनायकः जयप्रकाशनारायणः सम्मानोऽयं प्राप्तवन्तौ। बिहारे-जन्मनः बिस्मिल्लाखानः भारतरत्न-पुरस्कारेण अपि पुरस्कृतः अस्ति, परन्तु तस्य कर्मभूमिः उत्तरप्रदेशे वाराणसी अभवत् । तस्य परिवारः अद्यापि काशीनगरे निवसति ।
भारतरत्नम् : कर्पूरीठाकुरं मरणोपरान्तं भारतरत्नम् ; वञ्चितानां हितार्थं सदैव कार्यं कृतवान्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment