नरेन्द्र मोदी- 25 जनवरी दिनाङ्के यून: सम्बोधयिष्यति प्रधानमंत्री
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलस्य भाजपादलस्य प्रदेशाध्यक्ष: डॉ राजीवबिंदल: उक्तवान् यत् २५ जनवरी हिमाचलप्रदेशस्य कृते महत्त्वपूर्णः दिवसः अस्ति। यदा राज्यं पूर्णावस्थां प्राप्नोत्। राज्यस्य जनान् हिमाचलदिवसस्य अभिनन्दनं कुर्वन् सः अवदत् यत् २५ जनवरी दिनाङ्के संविधानदिवसः अपि अस्ति। अस्मिन् दिने देशस्य प्रधानमन्त्री नरेन्द्रमोदी यून: सम्बोधयिष्यति। राज्यभाजपादलं प्रधानमन्त्रिण: नरेन्द्रमोदिन: सजीव- प्रसारणस्य व्यवस्थां कृतवान्।
६८ विधानसभाक्षेत्रेषु ६८ स्थानेषु पटलस्थापनं कृत्वा प्रधानमंत्रिण: सम्बोधनं सजीवं प्रदर्शयिष्यते। सः १८ तः २५ वर्षाणां मध्ये युवकयुवतीभ्यः आग्रहं कृतवान् यत् ते २५ जनवरी दिनाङ्के प्रधानमन्त्रिण: नरेन्द्रमोदिन: वचनं निश्चितरूपेण श्रृण्वन्तु। भारतं युवादेशः अस्ति। विश्वे सर्वाधिका यूनां संख्या भारते अस्ति। नरेन्द्र मोदी यूनां कृते प्रेरणादायक: अस्ति। सार्धनववर्षेषु प्रधानमंत्री नरेन्द्र मोदी देशं विकासमार्गे अग्रे नीतवान् इति स: उक्तवान्। यदा मार्गाणां विस्तारः कृतः, रेलमार्गस्य विस्तारः कृतः, विमानयानयानस्य विस्तारः कृतः, दुर्बलकल्याणकारीयोजनानां प्राधान्यं दत्तम्।