पालमपुरस्य पुष्पै: अलङ्कृतं अयोध्याराममन्दिरम् – सीएसआईआर -पालमपुरस्य ट्यूलिप- वाटिकातः अयोध्यां प्रति प्रेषितानि पुष्पाणि
हिमसंस्कृतवार्ताः – पालमपुरम्।
पालमपुरस्य पुष्पाणि अयोध्यायां आयोज्यमानस्य रामललाया: प्राणप्रतिष्ठासमारोहस्य शोभां प्रसारितवन्त:। एतानि पुष्पाणि (CSIR) पालमपुरस्य ट्यूलिपोद्यानात् प्रेषितानि सन्ति, यानि भगवते श्रीरामाय अर्पितानि। अस्य कारणात् सीएसआईआर अपि गौरवम् अनुभूतवान्। CSIR-IHBT इत्यस्य Tulip Garden भारतस्य द्वितीयं उद्यानं हिमाचलप्रदेशे च प्रथमम् अस्ति। तस्मिन् विविधाः ट्युलिप-जातयः रोपिताः सन्ति। एतत् उद्यानं हिमाचलप्रदेशस्य प्राकृतिकसौन्दर्यस्य प्रचारार्थं पर्यटनस्य च प्रचारार्थं साहाय्यं कुर्वन् अस्ति। पुष्पसंवर्धनमिशनस्य नोडलवैज्ञानिकः डॉ. भव्यभार्गव: अवदत् यत् अस्मिन् वर्षे जलपोनिकप्रौद्योगिक्याः उपयोगेन ट्युलिपपुष्पाणाम् उत्पादनं कृतम्। एतानि पुष्पाणि पूजायाः भागत्वेन अयोध्यां प्रति प्रेषितानि सन्ति। संस्थानस्य निदेशकः डॉ. सुदेशकुमार यादवः आशां प्रकटितवान् यत् मिशनेन सह सम्बद्धाः कृषकाः अपि स्वस्वक्षेत्रेषु उत्पादितानि पुष्पाणि अयोध्यानगरं प्रेषयेयु:। आशास्महे यत् एतत् पदं अस्माकं सांस्कृतिकधार्मिकधरोहरस्य भव्यतां वर्धयितुं पालमपुराय नूतनपरिचयं दातुं च साहाय्यं करिष्यति।