हिमाचलप्रदेश: – बड़ाभङ्गालतः टाण्डाचिकित्सालयं उद्ग्रविमानेन प्रापिता रोगीमहिला, मुख्यमंत्रिणा प्रेषितमासीतत् स्वस्य उद्ग्रविमानम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
पुनः मानवसंवेदनशीलतां दर्शयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गतदिवसे उद्ग्रविमानम् (हेलिकॉप्टर) प्रेषयित्वा व्याधिग्रस्तं ६९ वर्षीयं कपुरीदेवीं बड़ाभङ्गालतः काङ्गड़ानगरस्य टाण्डा चिकित्सामहाविद्यालयं प्रति विमानेन वाहितवान्। मुख्यमन्त्री काङ्गड़ाजनपदस्य बडा़भङ्गालनिवासी कपुरीदेवी एकसप्ताहत: अस्वस्था अस्ति, खादितुं, पातुं, पादचालनं कर्तुं अपि असमर्था इति ज्ञात्वा तत्क्षणमेव तां महिलां विमानेन चिकित्सालयं प्रापयित्वा उत्तमस्वास्थ्यप्रदानार्थं पदानि स्वीकृतवान् सेवा निर्देशान् च दत्तवान्।
कपुरीदेवी गतदिवसे प्रातः हेलिकॉप्टरद्वारा बड़ाभङ्गालतः सफलतया उद्ग्रविमानेन वाहयित्वा स्वस्थतायै टाण्डा चिकित्सामहाविद्यालये प्रवेशं प्राप्तवती। कपुरीदेवी वैद्यानां निरीक्षणे स्थापिता अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः तस्याः शीघ्रं स्वस्थतायाः कामनाम् अकरोत्, कपुरीदेव्याः परिवारेण एतस्याः साहाय्यस्य कृते मुख्यमन्त्रिणं प्रति आभारं प्रकटितम्।