शिमलाया: १६ मीले बहुभूमिकभवनं पतितम् , समीपस्थं महाविद्यालयभवनं अपि संकटग्रस्तम्
हिमसंस्कृतवार्ता:- शिमला।
राजधानी शिमलानगरस्य समीपे षोडशमीले मध्याह्न १२ वादने बहुभूमिकभवनं पतितम्। कतिपयेषु निमेषेषु एव सम्पूर्णं चतुर्स्तरीयं भवनं पतितम्। राष्ट्रियराजमार्गे पर्वतपार्श्वे निर्मितस्य अस्य भवनस्य पतनस्य कारणात् कोटि- कोटिव्ययेन निर्मितं धामीमहाविद्यालयभवनम् अपि संकटग्रस्तम् अस्ति। संकटं दृष्ट्वा भवनं पूर्वमेव निष्कासितम्। अस्य कारणेन प्राणहानिः न अभवत्। भवनस्य पतनस्य समये राजमार्गे यातायातस्य अपि स्थगनम् आसीत्। घटनायाः सूचनां प्राप्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अपि तत्स्थानं प्राप्नोत्।