१९१ कोटिरूप्यकाणां भ्रष्टाचार: – केन्द्रीय- अन्वेषणविभागेन (सीबीआई) सतलुज- जलविद्युत्- निगमसीमितस्य (SJVNL) तत्कालीन- कार्यकारीनिदेशकेन सह प्रश्नोत्तरं कृतम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
महाराष्ट्रस्य अहमदनगरस्य सतलुज- जलविद्युत्- निगमसीमितस्य ( SJVNL) पवनविद्युत्संस्थानस्य स्थापनायां १९१ कोटिरूप्यकाणां कथितस्य भ्रष्टाचारस्य सन्दर्भे एसजेवीएनएल-इत्यस्य तत्कालीनकार्यकारीनिदेशकस्य आरके अग्रवालस्य विषये केन्द्रीयान्वेषणदलेन इत्यनेन प्रश्नोत्तरं कृतः। प्रायः चतुर्घण्टायाः प्रश्नोत्तरस्य कालखण्डे केन्द्रीयान्वेषणदलेन सीबीआइ इत्यनेन तस्य वक्तव्यस्य विडियो कृतः। सीबीआई-सम्बद्धाः सूत्राः वदन्ति यत् अधुना मुख्यमहाप्रबन्धकं (सेवानिवृत्तं) उपमहाप्रबन्धकं (सेवानिवृत्तं) च सूचना प्रसार्य अस्मिन् विषये प्रश्नोत्तराय सीबीआई-कार्यालयं शिमला-नगरं आहूता अस्ति।
एतेषां त्रयाणां तदा एसजेवीएनएल-अधिकारिणां प्रश्नोत्तरं सम्पन्नं भवति ततः परम् एफआईआर-पत्रे नामाङ्कितः कम्पनी- परामर्शदाता प्रश्नार्थं आहूतः भविष्यति। उल्लेखनीयं यत् महाराष्ट्रस्य अहमदनगरे सतलुज- जलविद्युतनिगमसीमितस्य पवनविद्युत्संस्थानस्य स्थापनायाम् अनियमितताविषये सीबीआई-संस्थायाः शिमलापुलिसस्थाने प्रकरणं पञ्जीकृतम्। एसजेवीएनएल सार्वजनिक उपक्रमस्य तत्कालीनस्य ३ अधिकारिणः अपि च एकस्याः निजीकम्पन्योः २ प्रतिनिधिनां विरुद्धं विभिन्नधाराभिः एतद् प्रकरणम् पञ्जीकृतम् अस्ति।