राज्यसर्वकारः एचपीसीएल-इत्यस्य साहाय्येन इथेनॉल- संयन्त्रं स्थापयिष्यति, प्रतिमासं २१ कोटिरूप्यकाणां भविष्यति आयः
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे ऊनामण्डलस्य जीतपुरबेहरीक्षेत्रे स्थाप्यमानस्य इथेनॉलसंयंत्रस्य निर्माणकार्यस्य विषये हिन्दुस्तान- पेट्रोलियम- कार्पोरेशन- सीमितस्य अधिकारिभिः सह गोष्ठीम् कृतवान्। मुख्यमन्त्री उक्तवान् यत् अस्य संयंत्रस्य निर्माणं हिन्दुस्तान- पेट्रोलियम-कार्पोरेशन-सीमितस्य तथा राज्यसर्वकारस्य ५०:५० भागेन भविष्यति। सः अवदत् यत् अस्मिन् भागे राज्यसर्वकारेण संयंत्रस्य निर्माणार्थं दत्ताया: भूमे: व्ययः अपि अन्तर्भवति। सः अवदत् यत् अस्य संयंत्रस्य निर्माणेन प्रतिमासं २१ कोटिरूप्यकाणां राजस्वं प्राप्य प्रतिदिनं १.५ लक्षलीटर इथेनॉलस्य उत्पादनं भविष्यति इति अपेक्षा अस्ति। सः अवदत् यत् अस्य संयंत्रस्य निर्माणकार्यं प्रायः वर्षद्वयेन पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं राज्यं हरित ऊर्जाराज्यं कर्तुं लक्ष्यं निर्धारितम् अस्ति। एतत् दृष्ट्वा विविधाः योजनाः, कार्यक्रमाः च कार्यान्विताः सन्ति। अस्य इथेनॉल-संयन्त्रस्य स्थापनायाः कारणात् प्रदूषणनियन्त्रणस्य अपि च पर्यावरणसंरक्षणस्य च प्रवर्धनं भविष्यति। अयं उद्योगः क्षेत्रे जनानां विशेषतः कृषकाणां कृते जीविकाया: स्वरोजगारस्य च अवसरान् प्रदातुं दूरगामी भूमिकां निर्वहति। अस्मिन्नवसरे मुख्यमंत्रिण: प्रधानसचिव: भरतखेड़ा, प्रधानसचिव: उद्योगम् आर. डी. नजीम:, प्रधानसचिव: वित्तं देवेशकुमार:, अधोसंरचना परामर्शक: अनिलकपिल: एवं हिन्दुस्तान- पेट्रोलियमकार्पोरेशन- सीमितस्य वरिष्ठाधिकारिण: उपस्थिता: अभवन्।