कृषिसामग्रीक्रयणे महिलाकृषकाः ५० प्रतिशतम् अनुदानं प्राप्स्यन्ति – आशीषबुटेल:
हिमसंस्कृतवार्ता- पालमपुरम् ।
कृषिसाधननि महिलाकृषकाणां कृते ५० प्रतिशतं अनुदानेन अन्यकृषकाणां कृते च ४० प्रतिशतम् अनुदानेन उपलभ्यते येन नूतनप्रौद्योगिक्या कृषि- उत्पादनं वर्धयितुं शक्यते, कृषकाणां आर्थिकदशां चापि सुदृढां कर्तुं शक्यते। पालमपुर- विधानसभाक्षेत्रस्य ग्रामपञ्चायतआरठे आत्मा परियोजनायाः आश्रये पशुपालनविभागेन आयोजितस्य एकदिवसीयस्य कृषकगोष्ठीकार्यक्रमस्य अध्यक्षतायां सोमवासरे नगरविकासशिक्षाया: मुख्यसंसदीयसचिवेन आशीष बुटेलेन इयं सूचना दत्ता। सः अवदत् यत् कृषकाणां हिताय हिम-उन्नति योजना आरब्धा, अस्या: अन्तर्गतं दुग्धशाकफलादिनगदसस्यानां समूहानां निर्माणस्य अपि निर्णयः कृतः येन कृषकाः लाभं प्राप्नुयुः। आशीष बुटेलः अधिकारिभ्यः अवदत् यत् कृषिपशुपालनार्थं सर्वकारस्य सर्वा: कल्याणकारीयोजना: प्रत्येकं ग्रामे नेतुम् प्रभावीपदं स्वीकुर्वन्तु, क्षेत्रभ्रमणेषु अपि विशेषबलं ददतु। कोली उपनिवेशे जलसमस्यायाः समाधानार्थं हस्तपम्पस्य स्थापनायाः घोषणां कृतवान्। सः पंचायतस्य बस्तीद्वये विद्युत्समस्यायाः समाधानं कर्तुं विद्युत्विभागाय निर्देशं दत्तवान् अपि च क्रीमी उर्वरकस्य उपरि ५ लक्षरूप्यकाणां व्ययेन कलवर्टस्य निर्माणस्य घोषणां कृतवान्।
अस्मिन् अवसरे मुख्यसंसदीयसचिवः अपि उपस्थितानां ८ महिलामण्डलानां २ युवामण्डलानां च कृते १५ सहस्ररूप्यकाणि दातुं घोषणां कृतवान्।