जीविकापञ्जीकरणप्रक्रियायां युगपद्-पटलद्वारा वर्धिता दक्षता – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- शिमला।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् १ अगस्त २०२३ त: प्रदेशे रोजगार-कार्यालय-प्रबंधन-सूचना- प्रणाली अर्थात् ईईएमआईएस-पटलस्य सुविधा आरब्धा अस्ति। यस्य सकारात्मक- परिणामा: प्राप्ता:। अनेन माध्यमेन नियोक्तृभ्य: अनुद्योगी-युवभ्य: च पंजीकरण- प्रक्रिया सरलतया एकीकृता अस्ति। अस्य आरम्भेन जीविकापञ्जीकरणप्रक्रियायां युगपद्-दक्षताया: आरम्भ: अभवत्। सर्वकारस्य अस्य पटलाय नियोक्तॄणाम् उत्साहजन्यं सहकारं प्राप्यते। अस्मिन् पटले अधुना यावत् ४८२ नियोक्तार: पञ्जीकृता: सन्ति। अस्मिन् पटले नियोक्तृभ्य: सरलतया रिक्तपदानां आवश्यकतायै विवरणम् अद्यतनकर्तुं सुविधा वर्तते। येन चयनप्रक्रिया सुव्यवस्थिता अभवत्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् अस्य पटलस्य आरम्भेन २०९ परिसरसाक्षात्कारेषु अस्योपयोग: जातमस्ति। यस्मिन् ६०९३ प्रतिभागिन: भागं स्वीकृतवन्त:।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः प्रशासने सूचनाप्रौद्योगिकीं वर्धयितुं राज्यसर्वकारस्य प्रतिबद्धतां स्मारयन् अकथयत् यत् हिमाचलं देशे अग्रणीराज्यं कर्तुं प्रौद्योगिक्या: सर्वोत्तम-उपयोग: सुनिश्चित: क्रियते। प्रौद्योगिक्या: अधिकाधिकमुपयोगं कृत्वा विभिन्नानां नीतीनां योजनानां माध्यमेन च जना: लाभान्विता: क्रियन्ते। असौ उक्तवान् यत् ईईएमआईएस-पटलम् राज्यस्य जनेभ्य: युवभ्य: च निर्बाधसेवां प्रदातुं जीविकाया: अवसरान् च वर्धयितुं सर्वकारस्य प्रतिबद्धतां प्रदर्शयति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – जीविकापञ्जीकरणप्रक्रियायां युगपद्-पटलद्वारा वर्धिता दक्षता
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment