हिमाचलसर्वकार: (HP Govt) – १००० कोटिरुप्यकाणां नवीनऋणं स्वीकर्तुम् अधिसूचना निर्गता
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशसर्वकारेण १००० कोटिरूप्यकाणां नूतनं ऋणं ग्रहीतुं पृथक्- पृथक् अधिसूचनाद्वयं प्रकाशिता। १० वर्षाणां कृते ५०० कोटिरूप्यकाणाम् ऋणं ग्रहीतुं प्रथमा अधिसूचना निर्गता अस्ति। द्वितीयं १५ वर्षेभ्यः केवलं ५०० कोटिरूप्यकाणाम् ऋणं निर्गतम् अस्ति। वित्तविभागस्य परिचर्या कुर्वन् राज्यसर्वकारस्य प्रमुखसचिवः आर. डी. नाजिमः एतत् प्रसारितवान्। एतत् ऋणं विकासकार्येषु व्ययितम् भविष्यति। एतदर्थं भारतस्य रिजर्ववित्तकोषस्य अनुमतिः गृहीता अस्ति।