मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – केन्द्रतः प्राप्ते साहाय्ये बाधाः न सृजन्तु भाजपानेतार: न च मिथ्यावादं कुर्यु:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः नादौन पत्रकारान् सम्बोधयन् अवदत् यत् भाजपा हिमाचलविरोधी दृष्टिकोणेन कार्यं कुर्वन् अस्ति, सकारात्मकविरोधस्य भूमिकां कर्तुं असफलः अभवत्। सः अवदत् यत् कोऽपि भाजपा सांसदः प्रधानमन्त्री नरेन्द्रमोदी वा अन्येषां केन्द्रीयनेतृणां साक्षात्कारं कृत्वा आपदा प्रभावितस्य हिमाचलप्रदेशस्य आर्थिकसहायतां प्राप्तुं न मिलितवान्। एतदेव न, नियमानुसारं राज्यसर्वकारेण केन्द्रसर्वकाराय प्रायः ९७०० कोटिरूप्यकाणां विवरणं प्रेषितम् यत् हिमाचलप्रदेशाय दिसम्बरमासे प्राप्तव्यः आसीत्, अपितु एतां राशिं विमोचयितुं भाजपानेतारः बाधाः सृजन्ति।
सः भाजपानेतृभ्यः आह्वानं कृतवान् यत् हिमाचलप्रदेशाय प्रदत्तायां आर्थिकसहायतायां बाधाः न सृजन्तु, केन्द्रात् विशेषवित्तीयसहायतां प्राप्तस्य मिथ्यावादं अपि न कुर्वन्तु इति। सः अवदत् यत् यदि केन्द्रसर्वकारेण आपदासम्बद्धे हिमाचलप्रदेशाय किमपि विशेषं आर्थिकसंकुलं दत्तं तर्हि भाजपानेतृभिः तस्य विषये सूचयितव्यम्। सः अवदत् यत् हिमाचलप्रदेशस्य आपदां राष्ट्रिय- आपदा इति घोषयितुं यदा विधानसभायां संकल्पः आनीतः तदा भाजपाविधायकाः तस्य विरोधं कृतवन्तः, भाजपा आपदाप्रभावितेभ्य: सह न स्थितवती।
विभागानां पुनर्गठनं करिष्यति सर्वकारः
मन्त्रिभ्यः विभागानां आवंटनस्य प्रश्ने सुखविन्दरसिंहसुक्खुः अवदत् यत् नवनियुक्तानां मन्त्रिणां कृते विभागाः प्रदत्ता: सन्ति, येभ्य: मन्त्रिभ्यः विभागाः गृहीताः तेषां विद्यमानविभागानुसारं नवनिर्मितविभागाः प्रदत्ताः भविष्यन्ति। सः अवदत् यत् राज्यसर्वकारः विभागानां पुनर्गठनं कर्तुं गच्छति, आगामिसमये केचन नूतनाः विभागाः निर्मिताः भविष्यन्ति। सः अवदत् यत् आगामिसमये आधारभूतसंरचनाविभागः, कृत्रिममेधाविभागः च निर्मितः भविष्यति येन निर्णयनिर्माणं सुलभं भवति, राज्यसर्वकारस्य कार्याणि सुचारुरूपेण चालयितुं शक्नुवन्ति।
भाखड़ाव्यासप्रबन्धनस्य ४३०० कोटिरुप्यकाणि केन्द्रसर्वकारस्य पार्श्वे निरुद्धानि
मुख्यमंत्री सुक्खुः अवदत् यत् केन्द्रसर्वकारस्य उपक्रमाः जलोपकरस्य विरोधं कुर्वन्ति। एतेन सह भाखड़ाव्यासप्रबन्धनस्य ४३०० कोटिरुप्यकाणि केन्द्रसर्वकारस्य पार्श्वे निरुद्धानि सन्त। यानि केन्द्रसर्वकारेण न मुक्तानि। सः अवदत् यत् लुहरी, सुन्नी, धौलासिद्धजलविद्युत्परियोजनासु हिमाचलप्रदेशस्य हितं मनसि न स्थापितं, पूर्वभाजपासर्वकारस्य कार्यकाले राज्यस्य हितं विक्रीतम्।
मुख्यमंत्रिणा नादौने चतुर्णां विकासात्मकानां परियोजनानां आधारशिला स्थापिता
ध्यातव्यं वर्तते यत् अस्मात् पूर्वं मुख्यमन्त्री नादौनविधानसभाक्षेत्रस्य कृते चतुर्णां विकासात्मकानां परियोजनानां आधारशिलाम् अस्थापयत्। सः नादौन-नगराय २४ होरात्मक पेयजलस्य सुविधां प्रदातुं ४४.६६ कोटिरूप्यकाणां व्ययेन निर्मितस्य परियोजनायाः आधारशिलाम् अस्थापयत् । मुख्यमन्त्री उक्तवान् यत् अस्मिन् वर्षे ग्रीष्मकालात् पूर्वं अस्याः परियोजनायाः निर्माणकार्यं सम्पन्नं भविष्यति, येन नगरपञ्चायतनादौनस्य सर्वेषां सप्तवार्डानां निवासिनः २४ होरासु पेयजलापूर्तिसुविधा भविष्यति। अस्यां योजनायां अत्याधुनिक-यूवी-छिद्रक-प्रौद्योगिक्याः उपयोगः भविष्यति इति सः अवदत् ।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः नादौने ४३.०६ कोटिरूप्यकाणां व्ययेन निर्मितस्य हिमाचलप्रदेशपर्यटनविकासनिगमस्य होटेलस्य शिलान्यासमपि कृतवान्, यस्य निर्माणं २०२५ तमस्य वर्षस्य जुलैमासपर्यन्तं कर्तुं लक्ष्यं कृतम् अस्ति पर्यटकानाम् सुविधाप्रदानाय एतत् होटलं आधारभूतं सिद्धं भविष्यति इति सः अवदत्। मुख्यमन्त्री ६.५४ कोटिरूप्यकाणां व्ययेन निर्मितस्य गगालस्थस्य जलशक्तिविभागस्य विश्रामगृहस्य, १४.०२ कोटिरूप्यकाणां व्ययेन निर्माणस्य जलाड़ीस्थस्य आदर्शकैरियर-कौशल-केन्द्रस्य च शिलान्यासम् अकरोत्। २०२५ तमस्य वर्षस्य जूनमासपर्यन्तं कौशलकेन्द्रं सज्जं भविष्यति।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः- केन्द्रतः प्राप्ते साहाय्ये बाधाः न सृजन्तु
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment