मुख्यमंत्री सुखविन्दरसिंहसुक्खुः-स्वास्थ्यसेवासु कृत्रिममेधाया: उपयोगं करिष्यति सर्वकारः
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्ये स्वास्थ्यसेवासु सुदृढीकरणाय आधुनिकप्रौद्योगिक्याः कृत्रिममेधाया: च उपयोगः सुनिश्चितः भविष्यति। विगते दिवसे स्वास्थ्यविभागस्य उच्चस्तरीयसभायाः अध्यक्षतां कुर्वन् सः एतत् अवदत्। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः विविधक्षेत्रेषु कृत्रिममेधाया: उपयोगं सुनिश्चित्य बृहत्परिमाणेन कार्यं कुर्वन् अस्ति। अस्य कृते कृत्रिममेधामन्त्रालयस्य निर्माणमपि विचार्यते। एतादृशः महत्त्वाकांक्षी उपक्रमः प्रथमवारं देशे सर्वत्र क्रियते।
हमीरपुरे भविष्यति राष्ट्रीयकर्करोगचिकित्साकेन्द्रस्य स्थापना
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यसर्वकारः हमीरपुरे राष्ट्रिय- कर्क्कटरोगकेन्द्रस्य स्थापनां कर्तुं गच्छति। एतदर्थं सर्वा: प्रक्रियाः चरणबद्धरूपेण सम्पन्ना: भवन्ति।
अस्मिन् केन्द्रे मुख्यतया चिकित्सालय:, प्रशामकचिकित्सा, निवारक-आन्कोलॉजी-केन्द्रं, आणविक- ऑन्कोलॉजी-केन्द्रं च विभागाः भविष्यन्ति। अस्मिन् केन्द्रे उच्चस्तरीयप्रौद्योगिक्याः उपयोगः सुनिश्चितः भविष्यति, विश्वस्तरीया निदानप्रयोगशाला च स्थापिता भविष्यति इति सः अवदत्। अस्मिन् केन्द्रे आणविक- ऑन्कोलॉजी- सहितानाम् अनेकानां नवीन-प्रौद्योगिकीनां उपयोगेन रोगिणां कृते उत्तमस्वास्थ्यसुविधाः प्रदत्ताः भविष्यन्ति। सः अवदत् यत् राज्यसर्वकारः राज्ये सम्प्रति कार्यरताः कर्करोगचिकित्सा-एककाः अपि सुदृढाः करिष्यन्ति।