भारतीयनौसेनायाः मार्कोस विशेषेन दलेन सोमालियातटात् अहृतात् वस्तुवाहकपोतकात् २१ जनाः सुरक्षितरुपेण विमोचिताः
भारतीय नौसैन्यबलं सोमालियातटस्य समीपे अपहृतस्य वस्तुवाहकपोतस्य एम. वी. लीला नॉर्फीकइत्येतस्य पञ्चदश-भारतीयैः नागरिकैः सह चालकदलस्य एकविंशतिः सदस्यान् विमोचितवत्। गुरूवासरे वस्तुवाहक पोतात् अपहरणस्य संकेतं संप्राप्य नौसेन्ये बलेन स्वीय-युद्ध पोतं आई. एन. एस. चेन्नई, इत्यमुं प्रेषयित्वा इदं सागरीय समुद्धारकार्यं चालितम्। नौसेनया प्रोक्तं यत् नौसेनायाः अभिजात सागरीय-सेना ‘मार्कोस’ इति स्वच्छता अभियानं कृत्वा अपहरणकारिणां अनुपस्थितेः पुष्टिं कृतवती । भारतीयैः नागरिकैः सह एकविंशतिः चालकाः च सुरक्षिताः सन्ति।
भारतीयनौसेनायाः मार्कोस विशेषेन दलेन २१ जनाः सुरक्षितरुपेण विमोचिताः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment