मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ:
हिमसंस्कृतवार्ता-मनाली।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः कुल्लूमण्डलस्य मनालीनगरे पञ्चदिवसीयस्य राष्ट्रियस्तरस्य शीतकालीनकार्निवलस्य उद्घाटनं कृतवान् । ऐतिहासिकहिडिम्बामन्दिरे प्रार्थनां कृत्वा सः परिधिगृहमनालीतः कार्निवलसंचलनं ध्वजं प्रदर्श्य प्रेषितवान्। हिमाचलप्रदेशस्य एवं अन्यराज्येभ्यः २५० तः अधिकानि महिलादलानि, सांस्कृतिकदलानि च अस्मिन् संचलन-कार्यक्रमे भागं गृहीतवन्तः । सांस्कृतिकसमूहाः सामाजिकसन्देशः, संस्कृतिः, परम्पराः च आधारिताः आकर्षककार्यक्रमाः प्रस्तुतवन्तः। सुखविन्दरसिंहसुक्खुः मनुरंगशालायां दीपप्रज्ज्वालनं कृत्वा सांस्कृतिककार्यक्रमाणाम् उद्घाटनम् अकरोत्। शिशिरकार्निवालस्य आयोजने विभिन्नराज्येभ्यः २५ सहभागिनः समूहाः भागं गृह्णन्ति । महिलामण्डलैः, विभागैः, संस्थाभिः च बहिः आनयितानां फलकानाम् विषये सः तीव्ररुचिं दर्शितवान् ।
अस्मिन् अवसरे विशालं जनसभां सम्बोधयन् मुख्यमन्त्री महिलामण्डलेभ्यः प्रदत्तां ‘प्रोत्साहनराशिं’ २० सहस्ररूप्यकात् २५ सहस्ररूप्यकाणि यावत् वर्धयितुं घोषणां कृतवान्। एतदतिरिक्तं मनालीनगरे १५ माइलसमीपे नूतनसेतुनिर्माणार्थं १० कोटिरूप्यकाणां प्रावधानमपि घोषितम् । सः अवदत् यत् रोहताङ्ग-मनाल्यां पर्यटनहोटेलस्य नवीनीकरणं भविष्यति, विद्युत्-बोर्ड-भूमिषु पार्किङ्ग-करणस्य सम्भावनायाः अन्वेषणार्थं सर्वेक्षणम् अपि क्रियते इति। एतदतिरिक्तं सः निकटभविष्यत्काले मनालीनगरे स्कीइंग् कार्यक्रमस्य आयोजनमपि कर्तुं घोषितवान् ।
मनाली : मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ:
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment