भूकम्पः -जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः
जापानदेशे प्रबलः भूकम्पः आगतः। भूकम्पनस्य तीव्रता चतुर्दशांशोत्तर सप्त-रेक्टर-परिमाणं मापितम्। मध्यजापानदेशे एकः प्रबलः भूकम्पः अनुभूतः अस्य भूकम्पस्य तीव्रता चतुर् दशांशोत्तर सप्त-रिक्टर-मापने इति मापितम् अस्ति। जापानस्य जलवायु-विभागेन इशिकावा- निगाटा- तोयामा चैतेषां तटीयक्षेत्रेषु सुनामी- इत्यस्य सचेतना प्रसारिता अस्ति। इशिकावा-प्रान्तस्य नोटो-नगरे पंच मीटर्-उच्चा सुनामी-तरङ्गः प्रविशति । जापानस्य प्रसार-माध्यम-समवायेन एन एच के इत्यनेन सूचितम् यत् एकमीटर इत्यस्मात् परिमाणात् अधिकः उच्चः तरङ्गः इशिकावा-प्रान्तस्य वाजिमा-नगरस्य तटं संप्राप्स्यति। होकूरिकू इलेक्ट्रिक- पावर- इत्यस्य कथनं यत् परमाणु-विद्युत्संस्थानेषु यत्किमपि अनियमितं भवति तस्य अन्वेषणं क्रियते ।
भूकम्पः- जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पःदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment