Tehreek-e-Hurriyat: तहरीक-ए-हुर्रियत् प्रतिबन्धितम्, एषा संस्था कश्मीरे इस्लामिकशासनं कर्तुम् इच्छति
जम्मू-कश्मीरस्य तहरीक-ए-हुर्रियत इति संस्थायां सर्वकारेण प्रतिबन्धः कृतः। एषा कार्यप्रक्रिया UAPA (Unlawful Activities Prevention Act (UAPA)) इति विधेयकानुसारम् अस्ति। केन्द्रीयगृहमन्त्री अमितशाहः एतां सूचनां दत्तवान् । गृहमन्त्री उक्तवान् यत् एषा संस्था अवैधकार्येषु संलग्ना अस्ति, जम्मू-कश्मीरं भारतात् पृथक् कृत्वा राज्ये इस्लामिकशासनं स्थापयितुम् इच्छति। भारतविरुद्धं प्रचारप्रसाराय, आतङ्कवादीनां कार्याणि कर्तुं च तहरीक-ए-हुर्रियत-सङ्घस्य निर्माणम् अभवत् । गृहमंत्री अमितशाहेन सामाजिकमाध्यमे एक्स इत्यत्र सूचना प्रदत्ता।
गृहमन्त्री अमितशाहः सार्वजनिके पटले अवदत् यत् ‘तहरीक-ए-हुर्रियत्, जम्मू-कश्मीर-नगरं यूएपीए-अन्तर्गतं अवैधसङ्गठनं घोषितम् अस्ति।’ नरेन्द्रमोदी इत्यस्य आतङ्कवादविरुद्धं शून्यसहिष्णुतायाः नीत्यान्तर्गतं यदि कोऽपि व्यक्तिः संस्था वा भारतविरोधी कार्येषु संलग्नः दृश्यते तर्हि तस्य नाशः भविष्यति।
Tehreek-e-Hurriyat: तहरीक-ए-हुर्रियत् प्रतिबन्धितम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment