सुकन्या समृद्धियोजना :- सर्वकारेण सुकन्या योजनायां कृता वृद्धिः
केन्द्रसर्वकारेण जनेभ्यः आङ्गलनववर्षे उपायनं प्रदत्तम्। नववर्षात् पूर्वं शुक्रवासरे केन्द्रसर्वकारेण जनवरी-मार्च २०२४ त्रैमासिक्यां सुकन्या समृद्धियोजनायाः (SSY) ३ वर्षाणां समयाब्धौ निक्षेपवृद्धौ (Deposit) वर्धनं कृतम्। अधिसूचनानुगुणं लघुरक्षणयोजनायाः अभिवृद्धिः वर्धिता अस्ति। एकस्याम् अधिसूचनायां केन्द्रीय-वित्त-मन्त्रालयेनोक्तं यत् सुकन्या समृद्धि योजना त्रयावर्षाणां समयाब्धौ राशेः भगः (ब्याज) वर्धितः। यत्र बहुषु लघुनिवेशितासु योजनासु वृद्धिः अभवत्, तत्रैव कुत्रचित् योजनासु यथावत् स्थितिः वर्तते। केन्द्रसरकारेण सुकन्या समृद्धियोजनायाः भगः प्रतिशत् ८.२ इति कृतम्। यद्यपि त्रयाणां वर्षाणां समयनिवेशः वर्धयित्वा ७.१ इति कृतम्। अत्र ध्यातव्यं वर्तते यत् पीपीएफ इत्यस्य भगप्रतिशते वृद्धि न अभवत्।
सुकन्या समृद्धियोजना :- सर्वकारेण सुकन्या योजनायां कृता वृद्धिः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment