विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम
भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते । 'भा' इत्युक्ते प्रकाशः अथवा ज्ञानम्, एवं 'रत' इत्युक्ते यत्र अस्मिन् ज्ञाने रतिः स्यात् तत् अर्थात् 'भारतम्' इति । तादृशः ज्ञानोपेतः देशः भारतम् इति । यत्र ज्ञानम् आद्रियते, त्यागः च प्रशस्यते तादृशं पुण्यक्षेत्रं हि भारतम् आख्यायते ।
पुण्यभूमि-भारतवर्षं धर्मशक्तिरूप-सम्पद् अस्ति । धर्मशक्तिर्हि दुःखदैन्यादिछायातो मनुष्यान् रक्षति । असौ भारतं हि पृथ्व्यां स्वर्गः, सुख-समृद्धि-सौन्दर्याणां धाम वर्तते । यः अस्मिन् देशे उत्पन्नः, यः अस्य अन्नजलादिभिः पालितः पोषितश्च, यः अस्याः पुण्यभूमेः भक्तः स्यात्, यश्च एनं देशं हि स्वगृहं मन्यते, स वास्तविको भारतीयः कथ्यते । यः कोऽपि उत्तरमार्गीयः स्यात्, अथवा दक्षिणमार्गीयः, आर्यः स्याद् अथवा द्रविडः, ब्राह्मणः स्याद् अथवा हरिजनः, सः सर्वोऽपि भारतीयो हि वर्तते । अत्र यः कोऽपि वर्णीयः अथवा धर्मसम्प्रदायानुयायी भवेन्नाम, यदि स भारते भारतार्थं निवसेत्, जीवेत्, स्वश्रद्धाभक्तियुक्तं जीवनं भारतसेवायाम् उन्नत्याञ्च योजयेत् तर्हि सः प्रकृतार्थतो भारतपुत्रो हि आख्यायते । चिच्छक्तेः अस्याम् आध्यात्मिकैकतायाम् अस्मद्देशस्य गौरवं गूहितमस्ति । अस्याः आधारभूतैकतायाः अभावाद्धि अस्मद्देशो वारं वारं दासत्वबन्धनेन बद्धो जातः ।
भारतं देवमनुष्याणाम् आशीर्वादात्मकं स्थानमस्ति । आध्यात्मिकज्ञानस्य प्रभुतसम्पत्तिः अत्रैव विद्यते । वेदः, उपनिषत्, गीता, रामायणं, भागवतं, महाभारतं, भारतशक्तिः, योगशक्तिः, साधुवाणी, सत्यानुभूतिः, अन्तर्ज्ञाननिधिः इत्यादयः सर्वेऽपि मानवकल्याणार्थम् अत्रैव उपलभ्यन्ते । वैज्ञानिकसंस्कृतौ अपि भारतं न अकिञ्चनं स्यात् कदाचिदपि । एवमेव सङ्गीतं, चित्रकला, मूर्तिनिर्माणकला, वास्तुशास्त्रम्, अस्त्रविद्या, फलितज्योतिषम् इत्यादिषु न कोऽपि इतरदेशः अद्यावधि भारततः अग्रे अवलोक्यते । योगशास्त्रे तु भारतं सदा हि जगद्गुरुत्वेन हि तिष्ठति इति, शुभम् ।
नारदोपाध्यायः, विज्ञानशिक्षकः, असमप्रदेशः